________________
पृ. ७. पं. १०. ]
हेतुबिन्दुटीकालोकः। अमूषां सम्भवमभ्युपपद्येदानीं दूषणं दत्ते-सम्भवे च' [६.१४] इति ।
ननु कथमयं नियमः सिध्यतीति प्रश्ने किमिदमकृतं नियमसिद्धयनङ्गमभिधीयत इत्याशझ्याह-एवं मन्यत [६.१८] इति । एवं वक्ष्यमाणकम् । इह [६.१८] वाङ्मये व्यवहारे । तद्विपर्ययेण [६.१८] तस्य नियम्यमानस्य विपर्ययेण । तद्विपक्षस्य [६.१९] तस्य नियमविषयस्य विपक्षः तद्विपक्षस्तस्य व्याप्तौ । [६.२१] 5 सत्याम् । प्रतिषेध्यस्य हेतुत्वस्य यः स्वभावस्तेन यद्विरुद्धं हेत्वाभासत्वं तस्य उपलब्ध्या [६.२५] ।
ननु हेतूतलक्षणप्रतीतिकाम( मो) हेतोरेव रूपं प्रतीयताम् , कथं पुनः परस्परपरिहारवत्तया तयोर्विरोधः प्रतीयत इत्याह-तदात्मे[७.१ति । तस्य हेतोर्य आत्मा तत्र नियतो यः प्रतिभासस्तस्य यज् ज्ञानं संवेदनं तस्माद्धेतोः विपरीतस्य 10 अन्यतया तदनात्मतया सामर्थ्यात् ज्ञातया । इत्थंभूतलक्षणा चेयं तृतीया । तदाभासता तस्याः प्रतीतेः [७.२] सामर्थ्येन निश्चयात् ।
तस्मात् किं भवतीत्याह-परस्परमिति [७.२]
स्यादेतत्-अत्यन्तासतो हेत्वन्तरस्य न केनचित् सह विरोधावगतिः येन विरुद्धोपलम्भात् अभावगतिर्भवति । तत्र च हेतुत्वमत्यन्तासत् कथं निषिध्येत इति पूर्वपक्षद्वय- 15 मुत्प्रेक्षमाण आह-ते च [७.४] इति। चो यस्मादर्थे । नापि च तेन निषिध्यमानं हेतुत्वमत्यन्तासत्तयोपगतमिति सम्बन्धनीयम् । तर्हि किमत्र तत्त्वमित्याह-केवलं [७.६] इति । .
अन्यत्र [७.६] कार्यादौ प्रसिद्धं निश्चितं व्यामोहाद् अज्ञानात् तत्र [७.६] हेतुत्रयबाह्ये अर्थे आरोपितं [७.७] सत्त्वेन व्यवस्थापितम्। 'शङ्कित[a]- 20 म् · अस्ति न वेति । संशयास्पदीकृतम् ।
तत् [७.७] तस्मात् । किं कस्मात् सामर्थ्यात् प्रकाश्यमानमित्युक्तम् । एवमुपलक्षणत्वादस्य कथं निषेध इत्यपि द्रष्टव्यम् ।
ननु किं हेत्वन्तरे हेतुत्वं भवत्वा[भवत् हेत्वा]भासत्वभावान्निवर्तमानमवगतं येन तस्यानेन विरोधो वक्ष्यत इत्याह-न च [७.८] इति ।
25 इदानीमत्यन्तासत्त्वमभ्युपगम्यापि दोषाभावं प्रदर्शयितुमाह-नापि [ ७.१०] इति ।
१. 'वा'S २. “आशङ्कितम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org