________________
२५२
पण्डितदुर्वेकमिश्रकृतो
[पृ. ६. पं.९प्रकर्षण भिन्नस्य भेदमुपगतस्य । एवमभिधानादेव चास्य प्रभेदस्येत्यत्रास्माभिस्तथा व्याख्यातमन्यथा एतन्न संगच्छेत । __ स्यादेतत्-लिङ्गलक्षणानुमानस्वरूपस्य व्युत्पादनं स्याद्यदि लक्ष्यं लक्षणं तन्निर्दिष्टं भवेत् । प्रभेदस्य च तदा स्याद्यदि तन्निर्देशः स्यात् । न चात्र तद्वाचकमस्तीत्याह तत्र त्रेधा5 व्युत्पादने व्यवस्थिते सतीति । एवञ्च निर्देशप्रदर्शनं परं कृतं बोद्धव्यं न तु लक्षणानुवादेन लक्ष्यविधिदर्शितः ।
हेतुरिति तु लक्ष्यमनूध पक्षधर्म इत्यादिलक्षणं विधेयमवसेयम् । इतिना नियमस्याकारो दर्शितः। प्रतिपाद्योपलक्षणं [8b] भावग्रहणं । तेन भावेषु अभिधेयेषु इत्यर्थः ।
अभावेषु तथा न स्यात् । 10 अत्र तु साहायकं कुमारिलसाक्षिणमुपक्षिपन्नाह तदुक्तमिति । संवित्तेरनुगमोऽ
नुबन्धः स्थैर्यम् । धारावाहित्वमिति यावत् । सकृज्जाता तु विपक्षाभावसंवित्तिरदृढा यत्र, न तत्र, यथावधारणमित्यनेन सूचयति । 'हिर्यस्मादिन्द्रियस्य भावानें(वांशे)नैव संयोगः। संयोगशब्देन संबन्धो विवक्ष्यते । न त्वन्यतरकर्मादिगुण
एव । सामान्यादेरप्रत्यक्षत्वप्रसङ्गात् । सोऽपि कस्मादित्याह-योग्यत्वादिति । भावांशेन 15 सह सम्बद्धमिन्द्रियं योग्यं मीमांसकमते । सतोरेव सम्बन्धोपपत्तेरिति भावः । स विषयोऽ.
स्येति तद्विषयस्तस्य भावस्तत्ता । कस्य सेत्यपेक्षायामाह प्रत्यक्षस्येति । कस्मादित्याह-अर्थेति । विरोधिन्यनुपपन्ना चतुर्धा चतुर्भिः प्रकारैः ।
असामान्यतयैव तत्साधनीभविष्यतीत्याह-तत्र इति ।
- अनुक्रान्तं रूपं [६.९] स्वभावो यस्य तत् तथा । अनुक्रान्तं प्रकान्तम् 20 एकज्ञानसंसर्गितुल्ययोग्यतालक्षणं वाच्यम् ।
हेत्वन्तरमपि तथा भविष्यति इत्याह-यदि [६.९] इति सम्भावयति। हिः [६.९] यस्मादर्थे । स्यात् तथारूपमिति प्रस्तावात् । आदि[६.९] शब्दात् कालस्य संग्रहः । घटवदिति चाशयः ।
- अयं प्रकार: [६.१२] कार्यकारणव्याप्यव्यापकलक्षणः । तस्मात् [६.१२] 25 कार्यकारणभावाद्यभावात् । ते [६.१२] कारणव्यापकानुपलब्धी । न च तस्य चात्यन्ता___ सतोऽविकलकारणस्य भावः सम्भवति इति भावः ।
१. ' भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ' इति श्लोकवा० अभाव० १८ । २. ' प्रकारोऽयं '- ३. 'तत् '-s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org