________________
पृ. ५. पं. १७.]
हेतुबिन्दुटीकालोकः ।
तु: [ ५.१६ ] विशेषार्थः ।
सामान्यमनुमाने प्रतिभासमानं प्रवृत्तिविषयः, तच्च व्यक्तिस्वरूपमिति स्वलक्षणविषयमेव प्रामाण्यं तस्यापतितमित्याशयः
यद्येवं भवन्मतवत् तदपि मतमतिशोभनमित्याशङ्कय आह - स्वलक्षणे [५.१७]ति । तद्देशोपसर्पणजन्मनीन्द्रियज्ञान इव ' प्रतिभासनप्रसङ्गेन शब्दादपि तं (तत्) प्रतीतौ चक्षु- 5 रिन्द्रियादिवैयर्थ्यप्रसङ्गेन व्यक्तेरप्रतिभासने तदात्मकं सामान्यं कथमिव प्रतिभायादिति भावः ।
ननु यद्यनुमानस्यापि प्रामाण्यं स्वलक्षणविषयं तर्हि प्रत्यक्षादस्य भेदः कथमित्या - शङ्कयाह – 'परोक्ष इति । तुः प्रत्यक्षादनुमानं भेदवद्दर्शयति ।
२५१
यस्मादर्था[त्]साक्षादनुदय'मानमुत्पत्तुं लिङ्गमपेक्षते, अर्थञ्च न साक्षात् करोति 10 तस्मादित्यर्थः । सति भाव आश्रयार्थः ।
स्यान्मतम् — यद्यस्यापि स्वलक्षणं विषयः, तर्हि " अन्यत् सामान्यलक्षणं, सोऽनुमानस्य विषयः " [ न्यायवि० परि०९ ] इति न्यायबिन्दुर्विरुध्येतेत्याह - तदेवेति । चो यस्मादर्थे ।
कथं तथा वक्तुं शक्यत इत्याह – लक्ष्यत इति ।
Jain Education International
सामान्यम् अतद्रूपपरावृत्तिर्लक्षणं लक्षकं यस्यातद्रूपपरावृत्तस्य वस्तुनः ।
त एव भेदाश्च अविवेचितभेदाः सामान्यमित्यर्थः । पुनरुक्ताशङ्काम् इत्यर्थपुनरुक्ताशङ्का इत्यवसेयम् । शब्दपुनरुक्तस्याननुभवादेव तदाशङ्काया अभावात् ।
द्विविधं हि पुनरुक्तम् । अर्थपुनरुक्तम् - यदा विशेषविधित्सा' द्यभावे स एवार्थः शब्दान्तरेणाभिधीयते । शब्दपुनरुक्तं तु विधित्साद्यभाव एव यदा स एव शब्दः पुनरुच्चार्यते । 20 विशेषविधित्सादिभावे तदेव द्वैधमर्थानुवादशब्दानुवादात्मना द्वैधं भवतीति ।
वार्तिकादौ तर्ह्यनैपुण्यमाचार्यस्येति चेत् । न, मन्दबुद्धीनधिकृत्य तत्प्रवृत्तेः । प्रमाणेनेति तृतीयान्तात् तसिर्द्रष्टव्यः ।
15
I
तन्निश्चयतः प्रभेदनिश्चयतः पुरुषव्युत्पादनमिति विग्रहः । प्रभेदस्य व्युत्पादनमिति सम्बध्यते । प्रभेदोऽपि द्विधा द्रष्टव्यः - अनुपलब्ध्यादिभेदेन पक्षधर्मत्वाद्यात्मना च । 25 यदि कार्यादिभेदनिश्चायकं प्रमाणमत्रोक्तम्, तर्हि अन्वयादिप्र (स्व) रूपप्रभेदनिश्चायकं प्रमाणं नोक्तमेवत्याशंक्याह त्रिविधेति । त्रिभिरन्वयव्यतिरेकपक्षधर्मतात्मकैः प्रकारैः ।
१. S संज्ञक हेतु बिन्दुटीकायाः प्रतेरत्र त्रुटितत्वात् मूलपाठाभावः बोध्यः ।
For Private & Personal Use Only
www.jainelibrary.org