________________
२५० पण्डितदुर्वेकमिश्रकृतो
[पृ. ५. पं. ९ता एव [५.९] इत्युत्तरम् । याः स्वहेतुभ्यस्तथोत्पन्नास्ता व्यक्तयः स्वहेतुसामर्थ्यात् तदेकप्रत्यवमर्षार्थज्ञानाद्येकं कार्य 'यासां तास्तथा । - एतदुक्तं भवति-अतत्कार्यव्यावृत्त्या तदेककार्यत्वं सर्वसजातीयानुगतं तासु विद्यमानमनुगताकारस्य बुद्धिप्रतिभासस्यारोपबीजं किन्न भवतीति ? । 5 स्यादेतत्-तदेककार्यतया तथाभूता अपि व्यक्तयः तथाभूताया भ्रान्ते/जमुपपद्यन्ते।
सामान्यमित्यस्मत्पक्षस्यापि न किञ्चित्प्रमाणमित्यभि सम्बन्धमाकलय्य परस्परसामान्याभिधानमुन्मूलयितुमाह-वर्णे[५.१०]ति । वर्णः शुक्लादिः, आकृतिः संस्थानं संयोगविशेषः, ताभ्यां समानोऽविशिष्टः आकार आभासो यस्य यत्र वा तत्
तथोक्तम् । वर्णसमानाभासम् आकृतिसमानाभासं वर्णाभासम् आकृत्याभासमिति यावत् । 10 वर्णाकृतिप्रयुक्त त्वात् सामान्यस्य, तज्ज्ञानस्यापि तथात्वं नायुक्तमित्याह-न च [५.११] इति । तद्रूपं [५.११] वर्णाकृतियुक्तरूपम् । तदुक्तम्
" वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते " [ प्रमाणवा० २.१४७] इति। तत् [ ५.११] तस्मात् ।
वर्णाकृतिप्रयुक्तं हि प्रतिभासमानं हि तद्वर्णाकृतियोगिन्यपरत्र भ्रान्तर्षीज [५.११] 15 निबन्धनं भवेत् , नान्यदितिभावः ।
यदि नाम सामान्य'तद्वतोर्वर्णादियोगाभ्यां वैसदृश्यं तथापि सामान्यं तत्र भ्रमनिबन्धनं किं न भवति इत्याह-सादृश्ये[५.११ाति। अस्ति हि काचिभ्रान्तिा अन्तरुपप्लवसम्भवे इत्यभिप्रेत्य परैः [५.१२] इत्याह ।
यद्येवं बाह्यस्य बुद्धिप्रतिभासेन सामान्येन किं सादृश्यं येन भ्रान्तिरुत्पद्यत इति 20 आह-व्यक्तय [५.१२] इति ।
'सामान्यालम्बनं यज् ज्ञानं तस्य य आकारो विजातीयव्यावृत्तरूपं तस्य सरूपाः [५.१३] 'विजातीयव्यावृत्ता [५.१२] इति हेतुभावेन विशेषणम् । तेन विजातीयव्यावृत्तत्वादित्यर्थः । बुद्धिप्रतिभासस्य वा अतद्रूपपरावृत्ततयैवावभासनादिति
च भावः । 25 यैवैशेषिकादिभिर्व्यक्तेभिन्न सामान्यमिष्टं तैरप्यवश्यमुक्तया नीत्या स्वलक्षणविषयमनुमानस्य प्रामाण्यमेष्टव्यमिति प्र[8a] तिपाद्य संप्रति मीमासकादीन् प्रतिपादयितुं यैः [५.१६] इत्यादिनोपक्रमते ।
१. आलोकसम्मतः ‘सामान्यालम्बनज्ञानाकारसरूपाः' इति पाठः। 'सामान्याकारज्ञानस्वरूपाः's।
२. आलोकसम्मतः 'विजातीयव्यावृत्ताः' इति पाठः । 'अ[समानजातीयव्यावृत्ताः' SI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org