________________
२४७
पृ. ४. पं. २२. ]
हेतुबिन्दुटीकालोकः। __ स्यादेतत्-अलिङ्गजापि परोक्षार्थप्रतिपत्तिरव्यभिचारिणी भविष्यति तत्कथं शब्दादीनां सत्यपि प्रामाण्ये तथात्वमित्याशङ्कयाह-तथाहि [४.१३] इति ।
सर्वशब्देनाशेषपरिग्रहं दर्शयति । स्वतन्त्रा [४.१३] स्ववशा लिङ्गानपेक्षेति यावत् ।
हेतुमाह-तस्याः [४.१४] इति । यस्तया व्यवसीयते स तस्याः स्वार्थः। 5
मा भूत्संवादिका, प्रमाणं तु कस्मान्न भवति ? । आह-अविसंवादनम्' अविसंवादकत्वं, तदेव लक्षणं स्वभावो यस्य तद्भावस्तत्त्वं तस्मात् [४.१५] ।
खतन्त्राया अयोगात् , अन्यत एव सा भविष्यति किमेतावताऽनुमानत्वम् ? । न हि पक्षधर्मतैव लिङ्गस्य रूपं येन तज्जायाः तथात्वं स्यादित्याह-अन्यत्रापि(तोपि) [४.१५] इति । 'असम्बद्धात् [४.१६] सिषाधयिषिताप्रतिबद्धात् । 10 .. अस्तु तर्हि प्रतिबन्धो न तु 'पक्षधर्मता । ततश्चान्वयव्यतिरेकवतोऽपि शब्दादेरपक्षधर्मात् परोक्षार्थप्रतिपत्तिरव्यभिचारिणी नानुमानमित्याशङ्कयाह-धर्म्यसम्बन्धेपि [४.१६] इति । ___ यद्येवमस्तु तत्प्रतिपत्तिहेतोः पक्षधर्मत्वमपि । किमतः इत्याह-एवम् [४.१८] इति । एवं रूपं [४.१८] साध्यसम्बद्धं विशिष्टधर्मिसम्बद्धञ्च । इतिः हेतौ । सर्वा 15 [४.१८] कृत्स्नैव । न भिद्यते [४.१९] न पृथक् प्रमाणम् ।
सर्वत्रायम् इतिः [ ४.१९] वाक्यार्थपरिसमाप्तौ । यत्र तु अर्थविशेष वर्तते स प्रायेण कथ्यते ।
स्यादेतत्-उत्सूत्रोऽयमर्थस्त्वया व्याख्यायते न त्वयमत्राचार्यस्य विवक्षित इत्याहएष च [४.१९] इति । चः [४.२०] यस्मादर्थे ।
- 20 __ननु प्रकृतसम्बन्धादर्थितमयमर्थोऽत्यन्त (दर्शनेऽयमर्थोऽसङ्गत) इत्याह -पक्ष । [४.२० ] इति । व्याप्त एव च [४.२२] इति समुच्चीयमानावधारणमिदम् ।
" नरश्च नारायण[ 7a ] मेव चादौ स्वतः सुतौ द्वौ जनयां बभूव " ..... इति यथा ।
१. आलोकसम्मतः मूलपाठः ‘अविसंवादनलक्षत्वात् ' न तु यथा मुद्रित:-'अविसंवादलक्षणत्वात् ' इति ।
२. 's' प्रतेरत्र त्रुटितत्वात् 'यदि स्या' इति पूरितमस्माभिः । आलोकमनुसृत्य ' असम्बद्धात् यदि स्या' इति-पाठः पूरणीयः ।।
३. अयमालोकसम्मतः पाठः । S ' एवम्भूतः'। .
३३ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org