SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पण्डितदुर्वेक मिश्रकृतो [ पृ. ३. पं. १८ वस्तुवृत्त्यापि कथं व्युत्पत्तेः प्राधान्यमित्याह तस्या [ ३.१८] इति । अयमाशयः - सर्वो हि प्रयोजकव्यापारः प्रयोज्यक्रियार्थः । उक्तं हि " विक्लेदनोपसर्जना विक्लित्तिः पचेः प्रधानार्थः ” इति । तस्माद् व्युत्पादनार्थमिति प्रयोजकव्यापारवद् व्युत्पत्त्यर्थमित्युक्तं भवति । तद्वयुत्पत्त्यर्थमिति तूच्यमाने अन्यैस्तदर्थैर्भोजनादिव (जनाव) स्थानादिभिः 5 प्रयोजकस्तदर्थमात्र व्यापारतया समान उक्तः स्यात् । अस्ति चास्यासाधारणो व्यापारः । स कथं नाम गम्येत इति न्याय्यो णिङ्गिर्देश: इति । ર૪૬ शाब्दी गतिमाश्रित्य वाक्यस्य प्रकरणप्रयोजनाभिधानप्रवृत्तत्वमभिसन्धाय परोक्षार्थेत्यादे - रेकदेशस्य शाब्दचैव गत्या गुणभूतार्थवाचकत्वं द[6b]'र्शयन्नाह - परोक्षार्थे[३.२३]ति । 10 शब्दात्मनश्चेत् प्रकरणस्य प्रयोजनमुक्तम्, कृतमर्थात्मनस्तेनाभिहितेन इत्याशङ्क्याह - न हि [३.२४] इति । तात्पर्यार्थ प्रदर्शनेनैवं व्याचक्षाणश्चार्थेन न्यायेन अभिधेयप्रयोजनमेव वक्तुं प्रवृत्तमिदं वाक्यमिति दर्शयति । यथा [ ४.५ ] इति सामान्योक्तस्यास्य विषयोपदर्शने । भूतं [४.५] सत्यं । किं तदित्यपेक्षायां ब्राह्मणीत्युक्तौ स्त्रीत्वावगतावपि यथा न त 15 स्त्रीप्रत्ययस्तद्वत्सर्वत्र द्रष्टव्यमित्यर्थः । आसमन्तादुप्यतेऽनेन इति आवपनम् [ ४.५] किमित्यपेक्षायां इयम् [४.५] इति । उष्ट्रिका पिटकिका | ननु परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वात् यदि तद् व्युत्पाद्यते तर्हि शब्दादेरपि तन्निमितत्वात् तदपि किं न व्युत्पाद्यते इत्याशङ्कयाह – अनेन [ ४.७] इति । अनेन 20 'तत्प्रतिपत्तेः त्रिरूपलिङ्गाश्रयत्वकथनेन । चो यस्मादर्थे । प्रमाणभूता [४.८ ] प्रमाणरूपा अव्यभिचारिणीति यावत् । कस्मादेवमुक्तं भवतीत्याह - अन्यस्मात् [ ४.८] इति उक्तत्रिरूपलिङ्गादन्यस्मात् तत्प्रतिपत्ते व्यभिचारिण्याः परोक्षार्थप्रतिपत्तेरयोगादप्रयुज्यमानत्वात् । असत्यवधारणे अयमर्थः कुतस्त्य इत्याह - अवधारणात् [ ४.१०] नियमादिति । 25 इति : [ ४.१०] अवधारणस्य आकारं दर्शयति । ततः [४.१०] परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वादेव । आदि [ ४.१०] शब्दादर्थापत्त्यादिपरिग्रहः । उक्तादन्येन प्रकारेणानुमानत्वे प्रामाण्ये सति इति यावत् । तेषां [४.११] शब्दादीनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy