________________
पृ. ३. पं. १९. ] हेतुबिन्दुटीकालोकः।
२४५ यद्येवं तद्व्युत्पत्त्यर्थमिति वक्तव्ये णिचा निर्देशेन किं प्रयोजनमित्याह-अत एव [३.१५] इति । यतोऽनुमानव्युत्पत्तिः प्रकरणस्य साध्यत्वादेव प्रयोजनं नान्यथा अतः अस्मात् कारणात् प्रकरणस्य व्यापारस्तथार्थाभिधानं तद्दर्शयितुं' [३.१६] । किंरूपं तद्दर्शयितुमित्याह-अनुमाने ३.१५]ति । अनुमानव्युत्पत्तिः विषयः साध्यत्वाद्यस्य स तथोक्तस्तं दर्शयितुं व्युत्पत्तिविषयं प्रयोजकव्यापार दर्शयितुमिति 5 यावत् । निर्दिशति [३.१६] आचार्य इत्यर्थात् । णिनिर्देशस्यैवाकारं इतिः दर्शयति ।
एवं च व्याचक्षाणः शिष्यस्यानुमानव्युत्पत्तौ प्रकरणस्य हेतुकर्तृतां दर्शयति । शब्दोऽर्थं प्रतिपादयति इति लोकस्य व्यवहारदर्शनात् । सामर्थ्याच्चाचार्यस्यापि तथाभावमभिप्रैति । सति चैवं कर्तुः श्रोतुश्च करण-श्रवणप्रयोजनमपि सूचितं भवति । 10
अथासति साध्यसाधनसम्बन्धाभिधाने कथं तत्प्रतीतिर्येन तस्य तत्प्रयोजनं सिद्धिमध्या. सीतेत्याह-ततश्च [३.१७] इति । यतः प्रकरणव्यापारोऽनुमानव्युत्पत्तिविषय उक्तः ततः कारणात् । चः [३.१७] अवधारणे उक्तः [३.१७] प्रकाशितः । अन्यथा प्रकरणव्यापारस्य तद्विषयत्वायोगादिति भावः ।
ननु च प्रणेतुर्ज्ञानस्थमर्थं प्रतिपादयितुमुच्यते न (मुच्चरितेन) शब्दात्मना प्रकरणेन 15 तदभिधानं कर्तव्यम् । न हि अन्यथा तम) प्रतिपाद्या(द्याः आ)कृत्या दर्शयितुं शक्यन्ते । तथा चार्थाभिधानमेवात्र प्रयोजकस्य प्रकरणस्य व्यापारः । स च ण्यन्ताभिधेयः । तस्मात् व्युत्पादनं प्रकरणस्याभिधानमेव। ततश्चास्यैवाभिधानार्थमिदमारभ्यत इति प्रसक्तम् । न चैतद्युक्तम् । अनुमानव्युत्पत्त्यर्थं हीदमारभ्यते । न त्वस्यैवाभिधानार्थमिति चोद्यं प्रतिविधातुमभ्युपगच्छन्नाह-यद्यपि [३.१८] इति । शब्दस्य वृत्तम् वर्तनम् 20 प्रवृत्तिः व्यापार इति यावत् । तेन शाब्देन न्यायेन प्रकरणव्यापारस्य प्राधान्यमित्यर्थः ।
एतदुक्तं भवति-शब्दस्य हि व्युत्पत्तिविषयः प्रयोजकव्यापारोऽभिधेयः प्रधानं तेन तादर्थ्य गम्यतेति ।
यदीदमनुमतमेव तर्हि किमर्थमेवमभिहितमित्याशय प्रतिसमाधानमाह-तथापि 25 [३.१९] इति । वस्तुवृत्तेन [३.१९] वस्तुवृत्त्यपेक्षया आर्थेन न्यायेनेति' यावत् ।
१. 'प्रतिपादयितुम् ' इति कल्पयित्वा पूरितो टीकापाठः । तथापि आलोकानुरोधेन ' दर्शयितुम् ' इत्येव सम्यक् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org