________________
२४४
पण्डितदुईकमिश्रकृतो
[ पृ. ३. पं. ८ ___ नन्वतावतापि न ज्ञायते कोत्र समुदायार्थो यस्मिन्प्रतिपाद्ये अमीषां परस्परसम्बन्धेन व्यापार इत्याह तथाहि [ ३.८ ] इति । निपातसमुदायश्चायं यस्मादित्यस्मिन्नर्थे सर्वत्र ।
व्युत्पाद्यते [ ३.८ ] विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते । 'इतिः [ ३.८ ] हेतौ। 5 यदि तच्छब्देन तत् परामृष्येत तदा तदभिधेयं व्युत्पाद्यतयोक्तं भवेद् यावता तच्छब्देन तन्न परामृष्टमिति आह-तस्यैव [३.९] इति । 'चः यस्मादर्थे। वाक्यभेदश्च द्रष्टव्यः । ततोऽयमर्थः -यस्मात् तच्छब्देन तस्य सम्बन्धः स्वीकारः तस्मात् सम्बन्धात् [३.९] इति ।
स्यादेतत्-अयं खलु तच्छब्दो अनन्तरप्रकान्तं प्रधानं परामृशन् दृष्टः, अनुमानञ्च 10 सामान्ये(समासाथै) गुणीभूतम् । तत् कथं तस्य तेन परामर्शः ? इत्याशंक्याह-यद्यपि
[ ३.९ ] इति । निपातसमुदायश्चायं विशेषार्थाभिधानाभ्युपगमे सर्वत्र । गुणीभूतम् [ ३.१० ] उपसर्जनीभूतमप्रधानीभूतमिति यावत् । बहुव्रीहावन्यस्यैव पदार्थस्य प्राधान्यात् ।
तथापि [ ३.१० ] इत्यभ्युपगपूर्व विशेषोक्तौ । शब्दस्य वृतिः प्रवृत्तिः15 अर्थाभिधानम् , तस्याः ।
प्रधानस्य संस्पर्शः स्वीकारः सम्बन्धः इति यावत् । तेन समं तस्य वास्तवसम्बन्धात् तत्परामर्शः स्यादित्याह-शब्दानाम् [३.१२] इति । स्वभावतः [३.१२] स्वरूपेण सङ्केताव्यवधानेनेत्यर्थः ।
अथवा मस(श)कसंकाशे किं महास्नाकर्षणप्रायेणेति मन्यमानस्तदभिमतं प्राधान्यमेव 20 दर्शयन्नाह-पक्षे[३.१३]त्यादि ।
अयमस्याशयः -यद्यपि समासार्थोपसर्जनं प्रत्यवम्रष्टुमशक्यं तथापि व्युत्पाद्यतया शास्त्रे प्रकृतत्वात् बुद्धयन्तरेण गृहीतं स्वतन्त्रं सत्प्रत्यवमृष्यते । यथा 'यद हमेतत् तमानय' इति ।
अविपरीतस्वरूपप्रतिपत्तिः [३.१४] शिष्यसन्तानवर्तिनीति द्रष्टव्यम् । [6a]'साध्यत्वाद(३.१५] एवेत्यवधारणीयम् ।
१. आलोकानुरोधेन । तस्यैव च तच्छब्देन ' इतिटीकापाठः स्यात् । मुद्रिते तु 'च'वर्जितः पाठोऽस्ति ।
२. टीकायां प्रतेरत्र त्रुटितत्वात् ' गुणभूतम् ' इति कल्पयित्वा स्थापितः पाठः, किन्तु , आलोकसम्मतः ‘गुणीभूतम् ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org