________________
पृ. ३. पं. ७.]
हेतु बिन्दु टीकालोकः ।
इति : [ ३.२ ] प्रतिषेध्यस्य तत्करणप्रतिपादनानुष्ठानलक्षणस्य व्यापकस्यानुपलब्धेराकारं कथयति । तया प्रत्यवतिष्ठमानस्य [ ३.२] प्रत्यवस्थानं कुर्वतः । तस्या असिद्धता, तस्या उद्भावनं प्रदर्शनं तदेवार्थ: प्रयोजनम्, तद्यथा भवतीत्युपन्यसनक्रियाया विशेषणमेतत् ।
२४३
आदीयते अस्मादिति आदि: [ ३.३] तत्र । अस्मात् खलु अर्था आदाय आदाय व्याख्यायन्त इति ।
स्यादेतत्-वचनस्यास्य बहिरर्थे प्रामाण्याभावात् कथमसौ तद्वचनात् तदसिद्धतां बुध्यते ? | यदि परस्मादस्य तद्विषयोऽर्थसंशयः प्रवृत्त्यङ्गं जायत इति तदेव मतमायात - मिति किमनेन मसीक्षितकुक्कटन्यायेनाचरितेनेति ।
Jain Education International
अत्राचष्टे - केवलं यः प्रतिपत्ता सति प्रयोजनादौ प्रेक्षापूर्वकारिणं कर्तारं नियमेन 10 आदौ तद्वादिनं मन्वानः तदर्थं वचनमस्याप्यपश्यन्नप्रेक्षावत्प्रयुक्तत्वगर्भप्रयोजनादिकमत्रापि जानीते, तं प्रतिपत्तृविशेषं प्रतीदमकृतादिवाक्यं वार्तिककृदिति । अन्यथा कथमसौ निष्प्रयोजनं चेदि ( द मि ) त्यादि निःसन्दिग्धमभिदध्यात् ।
आद्यस्य तुक्तया नीत्या प्रवृत्तिरव्याहृतेति सर्वमवदातम् ।
अत्र' [5 b.] भट्टार्चटमते सर्वैरेव धर्मोत्तरादिमतानुसारिभिः पराक्रम्यते । इत्थमस्मा - 15 भिरिदं गमितम् । एतच्च साध्वसाधु वा मध्यस्थया धिया सद्भिरेव विज्ञास्यत इति ।
पूर्वं सामान्येन प्रयोजनाभिधानमाख्यातमिदानीं विशेषेणावच्छिन्दन्नाह तत्रेति [ ३.५ ] वाक्योपन्यासे । एतद् अर्थात्मनोपि संभवात् प्रकरणात्मन इत्याह । तदुक्तं काव्यालङ्कारे “शब्दार्थौ सहितौ काव्यम्" [काव्या. १.१६] इति ।
कथं पुनर्व्युत्पादनं “ परोक्षार्थे "त्यादिशब्दरूपस्य प्रकरणस्य प्रयोजनमित्याशंक्य 20 सर्वशब्दसाधारणप्रयोजनोपन्यासपूर्वकमस्य तद्योगं दर्शयितुं यथास्वम् [ ३.६ ] इत्यादिनोपक्रमते । यस्य यदात्मीयमित्यस्यार्थः । वाक्यस्य [ ३.६ ] एकस्मिन्नर्थे प्राधान्येन प्रतिपाद्येऽर्थद्वारेणान्योन्या'पेक्षिण उपकार्योपकारकभावेनावस्थितस्य पदसमूहस्य । हि: [ ३.६ ] यस्मादर्थे ।
तदेवात्र नास्तीत्याह तच्चे [ ३.७ ]ति । चो यस्मादर्थे । पदानां [ ३.७] सुप्तिङ- 25 न्तानां शब्दानामवान्तरवाक्यान्तर्गतानाम् । अवान्तरवाक्यानामि [ ३.७ ]ति हेतुबिन्दुसंज्ञकमहावाक्यापेक्षया तदन्तर्भूतानां वाक्यानाम् । आकांक्षा पूरण 'योग्यं (ग्य)तत्तदर्थद्वारेण परस्परं' सम्बन्धो[ ३.७ ] व्यपेक्षा तेन ।
१. 'परस्परसंसर्गात् ' s [ अतः परं सर्वत्र मुद्रितहेतुबिन्दुटीकायाः 'S' इति संज्ञा बोध्या ।]
For Private & Personal Use Only
5
www.jainelibrary.org