________________
२४२
पण्डितदुवैकमिप्रकृतो [पृ. २. पं. २२.___ अनयैव चर्चद्वारा धर्मोत्तरादिमतेपि प्रत्यवस्थेयम् । तथाहि-'यद्यर्थसंशयं प्रकरणे प्रवृत्यङ्गं कर्तुमभिधेयादीनि अभिधीयन्त आदिवाक्येन, तत्करणादेव च तत्फलमुपवर्ण्यते, तर्हि तत्रैवादिवाक्ये कथं प्रवृत्तिः श्रोतृणामसति तस्यादिवाक्यस्याभिधेयाद्यभिधायके वाक्या
न्तरे' इति पृष्टो धर्मोत्तरादिराचष्टां तावत् । 5 का प्रवृत्तिरादिवाक्य इति चेत् ; तस्य पठनं श्रवणमर्थावगाहनम् । अन्यथा प्रकरणैपि
का प्रवृत्तिरिति तुल्यचोद्यम् । व्याख्यातृवचनात्तत्र प्रवृत्तौ प्रकरणेऽपि का क्षतिः ? । तद्वचनं क्रीडाद्यर्थमन्यथाऽपि [5a] संभाव्यत इति चेत्, समानमिदमन्यत्रापि । जिज्ञासया प्रवृत्तौ चादिवाक्यं वैयर्थ्यमभुवीत । आदिवाक्यविकलशास्त्रप्रवृत्त्यैव च प्रयासाल्पीयस्त्वात् । तत्र तदन्तरेणापि प्रवृत्तिर्नान्यत्रेति प्रतिवचनं प्रतिक्षिप्तम् । तस्माद्दरमपि गत्वा 10 तेनेदमभिधानीयं यदेवास्मदभिमतमिति किमतिनिर्बन्धेन [कृतं बहुतिथेन दोषेण ।
संशयस्य स्वरूपमुपदर्शयन्नाह-किमस्य (२.२२] इति । न वा किश्चिदि[२.२२]त्यनेन निश्चयेनान्यानुसरणबीजं दर्शितम् ।।
संप्रति प्रयोजनविशेष प्रति प्रकरणस्योपायभावसंशयं तदभिधानात् प्राङ न्यायप्राप्तं प्रदर्श्य प्रयोजनमात्रापेक्षयापि तस्योपायत्वसन्देहस्तदमिधानस्य पुरस्तात् सम्भवी ततोऽपि 15 प्रकरणे प्रवृत्तिरव्याहतेति दर्शयन् तत्रैवाभ्युच्चये हेतुमाह-अपि च [२.२३] इति ।
एवं जिज्ञासोः [२.२५] इत्येतजिज्ञासात इत्यर्थात् ।
प्रवृत्त्युपयोगिप्रयोजनशून्यं निष्प्रयोजनम् [२.२४] तद्विपरीतं प्रयोजनवत् [२.२४] । उत [२.२ ४] इति पक्षान्तरावद्योतने। अनेन प्रेक्षापूर्वकारित्वि]प्रयुक्तत्वजि
(प्रयुक्तजिज्ञासा दर्शिता । सप्रयोजनत्वानुसरणे कदाचिदस्मदभिमतमपि प्रयोजन 20 सम्भाव्यत इति भावः । अत एव व्यनक्ति-अस्मदभिमतेन वा [२.२ ४] इति ।
इतिना [२.२५] जिज्ञासायाः स्वरूपं दर्शितम् । __व्यर्थः [२.२५] निष्फलः प्रयोजनप्रतिपादकों वाक्यस्य प्रस्तावादादिवाक्यस्योपन्यासः [२.२६] प्रदर्शनम् ।
यद्येवमर्थो वाक्योपन्यासो व्यर्थस्तर्हि किमर्थं वार्तिककारेणाकारीत्याशक्य तस्माद् 25 [२.२७] इत्या दिनोपसंहारव्याजेन फलमस्य दर्शयति । यस्मादेवमर्थः सम्बद्धः तस्माद्धेतोः।
कर्तुं प्रतिपादयितुं वा नारभ्यते [२.२८] नानुष्ठीयत इति यथासंख्यं सम्बन्धः । तयोः साध्ययोः यथासंख्यमेवोदाहरणे प्राह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org