________________
पृ. २. पं. २२. ]
हेतु बिन्दु टीकालोकः ।
कस्य तदुपायतेत्येकदेशाकाङ्क्षायां तु प्रकरणस्य [ २.१७] इति श्रुतत्वाद्
द्रष्टव्यम् ।
जन्यते [२.१८] जायते । अत एव “जनिः कर्तुः प्रकृति:" [पा. १.३.२६ ] इत्यनेन लब्धापादानसंज्ञकात् पूर्वं पञ्चमी ।
२४१
तत: [ २.१८ ] सन्देहोदयात् । तद्भावनिर्धारणाय [ २.१८ ] तदुपाय- 5 निश्चयार्थम् । कृषीवलो [ २.१८ ] हालिकः | आदि [ २.१८ ] शब्दात् 'तदितरः । अङ्कुरादिजननयोग्यं बीजं, तद्विपरीतमबीजम् । तद्वधृतये [ २.१८ ] तन्नियमार्थम् ।
चेत् [ २.१९] इति पराभ्युपगमे सर्वत्र । न [२.१९] इति युक्तत्वेनाभिमतां प्रवृत्तिं प्रतिषेधयति । हेतुमाह - प्रयोजने [ २.१९ ]ति ।
असति वचने कथं सम्भव इत्याह - तत्साधके [ १.२० ]ति । तस्य [२.२१]
संशयस्य ।
• अनुमानव्युत्पत्तिः प्रयोजनमस्य । इत्य'नभिधाने विशिष्टं प्रयोजनं प्रति प्रकरणस्योंपायत्वं कथमिह सन्दिग्धे विदग्ध इत्याशङ्क्याह- अनुमाने [ २.२१]ति ।
दर्शनात् [२.२२] इत्युपलम्भात् । सामर्थ्यात् तेषां श्रवणादित्यर्थोऽवसातव्यः । 15 अयमत्र भट्टार्चटस्याभिप्रायः - यद्वयुत्पत्त्या योऽर्थी श्रुतदुपायग्रन्थसम्भवश्च स कस्यचिद्ग्रन्थस्य दर्शनात् तस्य चार्थित्व' विषयोपायभावं प्रति साधकबाधकप्रमाणाप्रतिसंवेदी तथाविधवचनमन्तरेणापि अर्थित्वमात्रचोदितोऽर्थित्वविषयोपायाभावं संशयानो जिज्ञासादित एवान्यत्र आदिवाक्यवियुक्त इव ग्रन्थे प्रवर्तिष्यति (ते) - तत्पाठश्रवणादिलक्षणां प्रवृत्तिमाचरिष्यति । अन्यथा आदिवाक्यविकले भूयसि शास्त्रे प्रवृत्तिर्न स्यात् । 20 तत्र च यदेव प्रवृत्तिनिबन्धनं तदत्रापि भविष्यति ।
नापि आदिवाक्ये सत्यप्याश्वासो युज्यते, अन्यत्प्रतिज्ञातवतामपि अन्यव्युत्पादनदर्शनात् । यथातः (यथा – “ अथातः ) धर्मं व्याख्यास्यामः " [ वैशे ० १.१.१ ] इति प्रतिज्ञाय षट्पदार्थीप्रतिपादनं कणादस्य ।
"
ततो निष्फलैवादिवाक्यक्रिया स्याद् यदि तद्विषय संशयोत्पादनेन प्रवृत्त्यर्थं तदुप - 25 वर्ण्यते । अन्यथा त्वादिवाक्येपि कथमिव प्रवर्तेत श्रोतेति ? ।
१ अत्रालोकसम्मतः टीकापाठः ' बीजाबीजावधृतये' न तु यथा मुद्रिते लभ्यते
' इति ।
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org