SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ .२४० पण्डितदुवैकमिश्रकृतो [पृ. २. पं. ११.अत्रोच्यते । यद्यर्थशब्दमात्रापेक्षया नियमः प्रतिपाद्यते तदाऽसावसिद्धः । तथाहिसङ्केतवशात् सृणजूटादिरों यथाऽर्थान्तरस्य ममत्वक्रियाविशेषविघातादिलक्षणस्य प्रकाशको वाचकस्तथा समयसामर्थ्यादेवार्थः शब्दस्यापि वाचको भवत्येव । तद्यथा भूतहस्तलक्षणायां कलायां कनिष्ठाद्या अङ्गुल्यः ककारादीनां तत्पवरेखाश्चाकारादीनाम् । न च 5 शब्दस्यापि अर्थप्रकाशनाद् अर्थप्रतीतिजननादन्यद्वाचकत्वं नाम । अथ घटार्थो घटशब्दस्य वाचको न भवतीत्युच्यते। हन्त ! तस्यापि सङ्केतवशात्तथाभावः केन निवार्यते ?। ' यदाऽहं युष्मभ्यं घटमर्थं दर्शयामि तदा घटश दमुच्चारयितव्यम् , अन्यथा वा ज्ञास्यथेति'-तदा किं तस्य तथात्वं न भवति ? । यदि सत्यवादी भवान् नैवं वक्तुमर्हतीति यत्किञ्चिदेतत् । तस्मात् सिद्धः प्रतिबन्धाभावः । 10 ननु शब्दस्य तावद्वक्तुकामतायां अस्ति प्रतिबन्धः । सा च यथावस्त्वेव वर्तत इति प्रणालिकया बाह्ये प्रतिबन्धात् शब्दस्य प्रामाण्यं कोऽपहस्तयेदित्याशङ्क्याह-विवक्षायाम् [ २.११ ] इति । ___ अपिः [ २.१२ ] विशेषविवक्षाया अभ्युपगमे । वस्त्वनतिक्रमेणापि क्वचिद्भव तीति नियमग्रहणम् । ततः [ २.१२ ] इति विवक्षायां प्रमाणात् शब्दात् । 15 स्यादेतत्-थे यमर्थं यथा विवक्षया विषयीकुर्वन्ति वक्तारस्ते तथैव तमर्थमनु तिष्ठन्ति इत्यत्राप्येवं विवक्षितुरेवमेवानुष्ठानं भविष्यतीति निश्चये कुतो निश्चयाभावः इत्याशङ्क्याह-न हि [ २.१३ ] इति । हिः यस्मात् । कथं तथानुष्ठाननियमाभाव इत्याह-विसंवादे[२.१ ४]ति । ' सरितस्तीरे शर्कराशकटं पर्यस्तमास्ते । तदाऽऽगच्छत भो गच्छामः ' इत्यभि20 धायाप्यन्यथा प्रवृत्तिदर्शनात् लोके [ २.१५ ] व्यवहर्तरि जने । सर्वग्रन्थकारवचनेऽपि अनाश्वासात् [२.१६ ] आस्थाया अभावात् । - प्रयोजना[4b]'भिधानात् प्रकरणस्य तदुपायभावविषयोऽर्थसन्देहः प्रवृत्त्यङ्गमुपजायते । ततश्च प्रकरणे प्रवृत्तिरर्थिनामिति प्रकरणस्य प्रयोजनविशेष प्रत्युपायत्वसंशयं प्रवृत्त्यङ्गं कर्तुम् आदिवाक्यमुक्तमिति मतं पश्चात् धर्मोत्तरादिनाप्यर्थात् दर्शितं येषाम् , तान् 25 कटाक्षयन्नाह-प्रयोजने[२.१७ ]त्यादि । प्रकरणस्य [ २.१७ ] इति प्रथमतो योज्यम् । तस्य तस्मिन् वा उपाय- . स्तद्भावस्तत्ता सैव 'विषयो यस्य स तथा । १. अस्माभिः 'तदुपायताविषये' इति पाठः कल्पयित्वा मुद्रितः किन्तु आलोकमाश्रित्य 'त दुपायताविषयः' इति पाठः कल्पनीयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy