________________
२३९
पृ. २. पं. ११.]
हेतुबिन्दुटोकालोकः। संग्रहस्तत्र । इति [ २.२ ! हेतौ। तदभिधानस्य [२.२ ] तस्य प्रयोजनस्योक्तेः । अर्थवत्ता [ २.२ ] सफलत्वम् वर्ण्यते [ २.२ ] तैरिति प्रकरणात् ।
यदि सोपपत्ति'कमेततैस्तथोपवर्णितं तर्हि सुन्दरमेवेत्याह-न चैतदिति [ २.२१ । चोऽवधारणे । एतद् अनन्तरोपनीतोपपत्तिगर्मितं तदभिधानं न युक्त्या सङ्गतम् ।
तदुपाये [ २.३ ] तस्य प्रयोजनस्योपाये । तद्भावः [२.३] तदुपायत्वम् । 5 तस्य निश्चयात् [ २.३ ] । सस्थाद्युपाये बीजादी [२.४] प्रवृत्तिः । __ अवधृते[ १.४ ]त्यत्रान्तर्भूतो णिजों द्रष्टव्यः । तेन अवधृतः अवधारितो बीजादि मावो यैस्तेषाम् । कर्षका अपि बीजादिविषये बुद्धिपूर्वकारिण इति प्रेक्षावत्त्वपुरस्कारेणोदाहरणम् ।
ननु यथोपेयार्थिनामुपायानिश्चयेन प्रवृत्तौ प्रेक्षावत्त्वे क्षतिस्तथोपेयानिश्चयेपि प्रवृत्तौ 10 किं न तत्क्षतिरित्याह उपेये तु [ २.६ ] इति । तुः पूर्वस्मादस्य भेदं दर्शयति । 'भाविनि [ १.६ । इति हेतुभावेन विशेषणम् । अनिश्चयेपि [२.७ ] इत्युपे[4a]'यस्येति प्रकरणात् ।
इति: [ २.८ ] सम्भावनाया आकारं दर्शयति । एतदुक्तं भवति-शक्यनिश्चय. मनिश्चित्य प्रवर्तमानाः स्वकर्तव्याकरणादुपालभ्याः, न त्वशक्या( क्य )निश्चयमिति । 15
यद्येवं प्रकरणस्यापि प्रयोजनविशेष प्रत्युपायभावं निश्चित्य तदर्थितया प्रवर्तिष्यन्त इति आह-निश्चयश्च [ २.१० ] इति । चोऽवधारणे ।
कस्मान्नास्ति इत्याह-शब्दानाम् [ २.११ ] इति ।
ननु च वाच्यवाचकभावलक्षणप्रतिबन्धसद्भावात् प्रतिबन्धाभावोऽसिद्धः । तथाहियदि शब्दस्य वाचकशक्तिरर्थस्य च वाच्यशक्तिर्वस्तुसती न स्यात् तदा पौरुषयी 20 स्यात् । पुरुषाधीनत्वे च शक्तेः-योऽयं 'शब्द एव वाचकोऽर्थस्य, अर्थ एव वाच्यः, न वर्थः शब्दस्य वाचकः ' इति दृष्टो नियमः, स न स्यात् । पुरुषेच्छाया अव्याहतप्रसरत्वात्। न च नियमविलोपोऽस्ति । न हीच्छन्नपि समयकारः पुरुषोऽर्थे वाचकशक्किम् , शब्दे च वाच्यशक्तिमर्पयितुं पारयति । तस्माद्यथा घट-प्रदीपयोः प्रकाश्यप्रकाशकशक्तिर्वैपरीत्यमननुभवन्ती नियमवती वास्तवी तथा शब्दार्थयोरपि वाच्यवाचकशक्ति- 25 नियमवती वास्तव्येवेति ।
१. हेतुबिन्दुटीकायाः प्रतेरत्र त्रुटितत्वात् 'भाविनि' इति पदं पूरयित्वा न मुद्रितं निर्दिष्टपृष्ठे, तथापि ' उपेये तु ' इत्यनन्तरं तत्पदं तत्र स्थाप्यमेव आलोकानुरोधेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org