________________
२३८
हेतुबिन्दुटीकालोकः । [पृ. १. पं. १८चार्यग्रन्थार्थ ज्ञास्यति । न ह्यज्ञो ज्ञकृतादेव किञ्चिदवगच्छति नान्यत इति नियमः । ततः कथमहमस्मिन्निष्फले महीयसि प्रयासे प्रवर्तेयेति दर्शयति । पूर्वव्याख्याने पुनरौद्धत्यपरिहारमात्रपरं विवक्षितमेतन्नैतत्पर्यवसानव्यापारमिति [3b]'सर्वमनवद्यम् ।
अवच्छेद्यावच्छेदकभावेनावस्थितौ विशिष्टौ वाच्यवाचकराशी प्रकरणम् । १.१८.1 5 तस्यारम्भ [ १.१८.] आरभ्यत इति कृत्वा । सामर्थ्यात्तदादिस्तत्र प्रयोजनं [ १.१८.] फलं प्रकरणस्येत्यर्थात् । इदं च शाब्दीगतिमाश्रित्योक्तं द्रष्टव्यम् । आर्थेन तु न्यायेन प्रकरणाभिधेयस्यानुमानस्य प्रयोजनं परोक्षार्थप्रतिपत्तिरूपं व्याख्यार्थतया ज्ञातव्यम् ।
तथा ह्यनुमानव्युत्पादनमेवानेन कस्मास्क्रियते ? यस्मात् परोक्षार्थप्रतीतिस्तदाश्रया। अतस्तत्परं वदन्वाक्यमिति सैव वाक्यार्थः । एतच्च “ परोक्षार्थप्रतिपत्तेरनुमानाश्रय10 त्वात्" इत्यनेन तु [ ३.२ ३. ]इत्यादिना परस्ताल्लेशतो निर्ने(णे)ष्यत इति । - तत् [ १.१६.] प्रयोजनाभिधानम् । चो [ १.१६.] अवधारणे प्रवृत्यिर्थमित्यस्मात्परो द्रष्टव्यः । इतिः [१.१९.] एवमर्थे । केचिव्याख्यातारो मन्यन्त इति विशेषः [इति शेषः]त एव तदनुसाहायकमन्यं साक्षिणमुपक्षिपन्त आचक्षते तदुक्तम्
[१.२०. Jइत्यादि । कस्यचिद् [१.२१. ]इत्यनेन सर्वं संगृह्णाति अल्पस्येतरस्यापि 15 वेत्यर्थः । अत एव पूर्वस्मादविशेषप्रदर्शनार्थो वा[ १.२१. Jशब्दः । यावत् १.२२.]
इत्यव्ययमवधौ । नोक्तम् [१.२२.] इत्यस्मात्परोऽस्तिर्भवन्तीपरः 'सामान्यप्राय[:] सिद्धो द्रष्टव्यः । तावदिति पर्ववदवधौ । तच्छास्त्रं तच कर्म केन गृह्यताम् [१.२२.] प्रवृत्तिविषयी क्रियताम् । ।
किमः क्षेपे प्रयोगात् न केनचिदित्यर्थः । 20 तत् [ १.२ ४. ] श्रोतृप्रवृत्त्यर्थं प्रकरणादौ प्रयोजनाभिधानम् अयुक्तम्
[ १.२४.] । . ननु येनाभिप्रायेण तैस्तत्प्रवृत्यर्थमुपवर्ण्यते स एवाभिप्रायो भवता ना बोधि तत् कथमेतत् प्रतिषिध्यत इत्याशङ्कय यत [ १.२४. ] इत्यादिना तदभिप्रायमुद्भिनत्ति ।
इतिना [ १.२४. ] वचनस्याकारमाह । तं प्रति प्रकरणस्योपायतां निश्चित्य . 25 प्रवृत्तिः स्याद्यथा स्यादिति प्रकरणात् ।
किमुपायनिश्चयेन तेषामित्याह-अनुपाय [ १.२५. ] इति । प्रेक्षावताम्[ २.१. Jइति काकाक्षिन्यायन द्वयोरपि पार्श्वयोरभिसम्बध्यते ।
उपायनिश्चयेपि कस्मात् प्रवृत्तिरित्याह-तदर्थितया [ २.१. ] तस्य फलस्याभिलाषेण । क्व प्रवृत्तिरित्याह-प्रकरणस्य श्रवणं [२.१.] आदिग्रहणात् चिन्तादेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org