________________
पृ. १. पं. १५.]
पण्डितदुइँकमिश्रकृतो "वरमद्य कपोतः श्वो मयूरात्", "मृताद्वरं दुर्बलते"त्यादि यावत् । न पुनरचवितान्यग्रन्थचर्वणमिति बुद्धिस्थीकृतवर्जनीयाङ्गम् एव चैवमाह । सामर्थ्यगम्यत्वाच्च वर्जनीयत्वेनाभिमतं नावादीत् । ' अपि न्यायतः सम्भावनामाह।
अन्ये पुनरनिपातमेव श्रेष्ठवचनं चर्वणसमानाधिकरणं वरशब्दं वर्णयन्ति । न केवलमचर्वितोप्वति चापिशब्दं व्याचक्षते । महतोऽपि महीयांसमाचार्यम् । विदुषश्चास्य 5 सर्वथैवाभिधानं द्रष्टव्यम् ।
ननु च व्याख्यातत्वादान्तरतया निष्पीडितस्य मनागपि माधुर्याभावादेव तदप्राप्तौ कथं वरम् इत्यभिधीयत इति आशक्य प्रतिवस्तूपमालङ्कारेण प्रतिवचनमाह निष्पीडितापि [१.११.] इति । मृद्रीका द्राक्षाफलम्। किमः क्षेपे प्रयोगात् नैव जहातीत्यर्थः । अनया वचनव्यक्त्या 'असूयामपि । गम्भीराणामाचार्यगिरां नूनं न सर्वमर्थजातं यथावत् 10 पूर्वे व्याचख्युरतस्तथाविधरसास्वादस्तेन भविष्यतीति नितरां वाच्यमिति · सूचयति । पूर्वपक्षनिषेधाभिप्राय हि: १.१ ० ]यस्मादर्थे, व्यक्तमित्यस्मिन्नर्थे वा ।
न्यायमार्गः [१.१३.] युक्तिमार्गः एव तुलेत्यन्तींतनियमः समासः । एकत्र १.१३. ] इत्ययं शब्दः का काक्षिवदुभयोरपि पार्श्वयोर्व्याप्रियते । तेनायमर्थः जगत् कर्मभूतम् एकत्र एकस्मिंस्तुलान्तर्वर्तमानम् एकत्रावस्थिता यस्य मतिर्जयेद् 15. अधरीकुर्यात् । जयेद् इति सम्भावनापदमैतत् । यन्मतेर्जगदमिभवनं सम्भाव्यते इत्यर्थः । शक्यार्थं वा । जगजेतुं शक्तेति यावत् ।
तस्य [१.१४.1 एवंमतेः गिरः [१.१४.] वाच । परोक्षार्थेत्याद्यात्मिकाः । वाति वदनस्वव्याख्येयतया तान् संभावयति । दुरवगाहतया गम्भीराः १.१४.] । अत एव केत्याह ।
... 20 अहं जडधीः क्व चेत्यनेन तदव्याख्यातृत्वेनात्मानमसंभावयन्दूरीकरोति । . तथापि [ १.१५.] इत्यनेन निपातसमुदायेन प्रकृतं प्रतिसमाधत्ते। 'यानुद्दिश्य । १.१६.]यानधिकृत्य 'यदर्थमिति यावत् । मयापि[ १.१६.]एवं विधेनापि मया । वक्रोक्तिपक्षे त्वाचार्य प्रति जडधीरिति ब्रुवता लोकं प्रति विपर्ययोऽन्तर्निहितः ।
मन्दमतयः सन्ति मत्तोपि केचन [ १.१५.]इति विदर्भवचनेन दुर्जनमनस्तो- 25 षकरेण-यदि दुर्जनो मयि नाहत्य यदा चरति तदा बहुभिरेवाचार्याभिप्रायो न सम्यग्व्यज्ञायीति बहुजनोद्देशेनैव मयैतद्विभज्यते । अन्यथा तु सोपि जनः पर्वादपव्याख्यानग्रन्थादा
१. टिबेटनभाषान्तरमाश्रित्य ' तेषां कृते' इत्येवंरूपः पाठोऽस्माभिः कल्पितः मुद्रितश्च । किन्तु इमां टीकामाश्रित्य तत्रत्यमूलपाठः ' यानुद्दिश्य ' इत्येवं पूरणीयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org