________________
२३६
हेतुबिन्दुटीकालोकः।
[पृ. १. पं. ८- " दयया श्रेय आचष्टे ज्ञानाद् भूतं ससाधनम् " [प्रमाणवा० १.२८४] इति । तथा
“ वैफल्याद्वक्ति 'नानृतम् " इति । अत एवाविपरीतज्ञेयाद्युपदेशद्वारेण हार्दतमोपहः [ १. ८.] संवृत्तः 5 इत्यर्थादेव वचनं विशुद्धं दर्शितम् । तद्विषयतया चाचार्यग्रन्थविशुद्धिः । तद्विषयतया
च टीकाविशुद्धिश्च सामर्थ्यादाख्याता भवति । शेष समानं पूर्वेणेति । ___ भवतु भगवतो . निर्दोषतया प्रवचनविशुद्धिः । तथाप्याचार्यस्य वाङ्मनसो(सयो)गुण्यसम्भवेन तच्छास्त्रं न विशोत्स्यति इत्याशङ्कयाचार्यस्यापि जगदतिशायिप्रज्ञायोगप्रदर्शनेन वाङ्मनसो(सयो)वैगुण्याभावो न्यायमार्गे १.१३. त्यादिना दर्शयिष्यते । वाङ्मनसो10 (सयो)वैगुण्यं हि जाड्ये सति भवत्तेन व्याप्तम् । तद्विरुद्धं चात्यन्तप्रकृष्टबुद्धित्वं । तस्मिन् सति कथं भवेदित्यभिप्रायात् ।।
आचार्यग्रन्थविशुद्धावपि तवैव वाङ्मनसयोवैगुण्यात् टीका अवदाता न भविष्यति इति चाशक्य औद्धत्यपरिहारापदेशेन आचार्यवचनापेक्षया आत्मनो जडत्वमभ्युपेत्य
वैदर्थ्यपरया वचनमङ्गया तथापि [ १.१५.] इत्यादिना स्ववाङ्मनसो(सयो)वैगुण्य15 वैकल्यमपि प्रकाशयिष्यते
आदौ कस्यचित्पार्श्वस्थस्य अश्रुतैतत्पूर्वपक्षवादिवचनस्य तत्रानादृतस्य वा व्याख्यातग्रन्थव्याख्यानेन चर्वितचर्वणमनुतिष्ठता त्वया कथं तत्त्वातिशयप्रकाशनलक्षणं माधुर्यमन्तस्तृप्तिकरमासादयितव्यः( व्यम् ) तत्किमेवमाचरितमिति त्वरयाऽभिप्राय स्वयमुदाटितं विघटयितुमाह - वरं हि [ १.१०.] इत्यादि ।20 त्वरायोगिनोऽस्य पूर्वपक्षं से पयित्वा तु ते एवाशके निराकुर्वन्नाह - न्यायमार्गे[ १.१३. त्यादि।
पूर्वव्याख्याने तु वरम् अव्याख्यातेऽन्यत्र क्लेशः क्रियतां यत्र रसविशेषास्वादः सम्भवी, न पुनरत्र तदसम्भवादिति आशङकायामिदं योज्यम् । उत्तराभ्यां तु श्लोकाभ्यां स्वकीयौद्धत्यपरिहारः केवलः कृत इति । 25 धर्मकीर्तेरिमानि वचनानि तेषु । आकृष्टरसं हि [ 3a]'सनीयं चर्वितमुच्यते ।
अमीषामपि बहुभिर्व्याख्यातत्वेन आकृष्टरसत्वात् चर्वितमिव चर्वितेषु चर्वणं [ १.१०.] रसास्वादार्थो व्यापारविशेषः । अचर्वितचर्वणरूपादव्याख्यातान्यग्रन्थव्याख्यानादिति प्रकरणलभ्यमवधिमभिसम्बन्धाय( सन्धाय ) किञ्चिदिष्टौ - वरम् [ १.१०. ] इत्यव्ययमाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org