________________
पृ. १.पं.८.]
पण्डितदुर्वेक मिश्रकृतो
२३५
हृदि भवं हार्दम् [१. ८.] सदसत्पथविवेकविबन्धकत्वात् तम इव तम: [१.८. ] अज्ञानम् कयाचिद्वयपेक्षया तु हृदो मनसो भेदविवक्षायां तदुभयत्वमुक्तम् । लोकोक्त्यपेक्षया वा । तदपहन्ति विध्वंसयति धर्मदेशनाद्वारेण अन्यथा चेति तथा ।
जिनो मारजयनाद् बुद्धो भगवान् । क्व हार्दतमोपह इति अपेक्षायामाह – लोके [ १. ८. ] इति । लोकविषयं यच्चैतसं तमस्तस्य हन्ता । लोकस्यैव तथाभूततमसो s - 5 पहन्तेति यावत् लुप्य(क्य)त इति लोकः । हार्दतमः ' शब्दप्रत्यासत्तेः प्राणी ज्ञातव्यः । एवंकारिण्येवावस्था सत्त्वोपकारावस्थेत्युच्यते ।
1
स एव व्यसनिजनत्राणनिमित्तकृपाधारण साधर्म्यात् । खेरपि तदागमे तथार्थोपवर्णनात् । तदा तु व्यसनं रोगो ज्ञातव्यम् । उदयाद्रिसमाश्रयणसाम्याल्लोके तमोपहत्व साधर्म्याच्च । तदा ततमोऽन्धकारं द्रष्टव्यम् । रविरिव रविः । रूपकालङ्कारश्चात्र काव्यगुणो दर्शितः । 10 मूर्ध्ना नमस्यामि [१८] इति शिरः प्रणमयत एवंविधं वचनमवसेयम्। तेन कायिको नमस्कारो दर्शितः स्यान्नान्यथा । शब्दानुपूर्वीविशेषोच्चारणेन तु वाचिको दर्शितः । कायव्यापारव्याहारयोश्च तदुत्थापकमनःपूर्वकत्वात् 'मानसिकोऽपि इति सर्वमवदातम् । सोपायस्वार्थसम्पदाख्यानद्वारेणेयं नमस्क्रिया इति तत्त्वाव्याख्यानमुद्धृष्टं नातिश्लिष्टञ्चेति नोटितम् ।
अथवा अन्यथा व्याख्यायते । परार्थः खल्वयं टीकालक्षणों ग्रन्थोऽभिप्रेतः । परश्च विषयदोषाशङ्कायां श्रवणाय नावधत्ते । ततश्चानवधानं विषयदोषाशङ्क [2] b. ]' या व्याप्तं तद्विरुद्धोपदर्शनेन अनवधाननिषेधार्थं व्यापकविरुद्ध विषयविशुद्धिमुपदिदर्शयिषुराह [१. ५.] इत्यादि।
य
टीकाविषयोश्चा('षयश्चा)चार्यधर्मकीर्तिग्रन्थः । तद्विशुद्धिश्व प्रवचनविशुद्धया, प्रव- 20 चनार्थसमर्थनपरतया आचार्यशास्त्रस्य तदेकविषयत्वात् । ततश्चाचार्यशास्त्रविशुद्धिनिबन्धनप्रवचनविशुद्धिं बोधयितुं भगवतो गुणोदित त्वनिर्दोषते नमस्कारापदेशेन दर्शयति । उपायोपदर्शनपूर्वक तथाभूतप्रज्ञोदयाद्रिसमाश्रयणाभिधानेन भगवतः सर्वाज्ञानविगमो
दर्शितः ।
15
सर्वाज्ञानवैधुर्याद् अस्तु निर्दोषः, स तु स्वार्थप्रकर्ष प्राप्तः कस्मात् परस्मै 25 सोपायहेयोपादेयतत्त्वमुपदिशति येन तस्य तथाभूतं प्रवचनं सम्भवेदित्यपेक्षायां यः संजाते[ १५ ] त्यादिना महाकरुणया योगमुपदर्शयति । ततो महाकरुणा चीनमुपदिशति प्रज्ञाप्रकर्षयोगाच्च भूतं समाधा (ससाध ) नमिति प्रकाशितम् । तेनानुपदेशोऽन्यथोपदेशश्च व्युदस्तः । यदाह -
-
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org