________________
२३४
हेतुबिन्दुटीकालोकः। [पृ० १. ५० ५किं त्रातुमित्यपेक्षायां त्राणक्रियाकर्म जनम् [ १. ५. ] आह । तं विशेषयन्नाह-समग्रम् [ १. ५.] परिपूर्ण सकलमिति यावत् ।
पुनरपि विशिनष्टि व्यसनिनम् [ १. ५. ] इति । व्यसनं दुःखम् , तद्वन्तम् । नित्ययोगे चायमिनिर्द्रष्टव्यः । कृपाशब्दप्रत्यासत्तेः "सामर्थ्यात् दुःखात् दुःखहेतो, 5 त्रातुमित्यर्थोऽवतिष्ठते । अविवक्षितापादनाद्वा अनपादानत्वम् ।
दुःखाद् दुःखहेतोश्च सर्वसत्त्वा मया मोचयितव्या इत्याशयसंपद्योगिन्यवस्था आशयावस्थेत्युच्यते ।
हेतुः [ १. ६.] निमित्तम् , सार्वज्ञपदस्येति वक्ष्यमाणस्वार्थप्रकर्षप्राप्तिसामर्थ्यादवसेयम् । चितिक्रियाभिसम्बन्धाद् द्वितीया । 10 कीदृशमित्याशङ्कायां तद्विशेष्टुमुक्तं पुण्येत्यादि पश्चाद्योज्यम् । पुण्यज्ञानमयं [ १. ६. ] पुण्यज्ञानस्वभावम् ।
अन्यथा विशिनष्टि विपुलं [ १. ६. ] विस्तीर्ण महान्तं यावत् । पुण्यज्ञानसंभारावेव हि सार्वज्ञ पदमावहतः ।
पुण्यज्ञानसंभारोपार्जनमेव सत्त्वोद्धरणाय प्रयोगः । तेन तत्पदप्राप्त्यैव सत्त्वोद्धरण15 संभवात् । अन्यथा तत्पदाभावात् । [ 2a ] 'एवंविधप्रयोगसम्पद्योगिन्येवावस्था प्रयोगा
वस्थेत्युच्यते । ___ अयं प्रयोगः प्राचीनश्चाशयो द्वावेतौ पारंपर्येण परमपदप्राप्तेः कारणमिति तत्पदप्राप्तिहेतुत्वमात्रविवक्षया, अवस्थामात्रविवक्षया च हेत्ववस्था भगवतो व्यपदिश्यते । भेदविवक्षया पुनराशयप्रयोगावस्थेति । 20 प्रचित्य [ १. ६.] उपचित्य राशीकृत्येति यावत् । तथा भूताद्रिसमाश्रितौ समाश्रयणापेक्षायां पौर्वकालिकः प्रत्ययः ।
किमेवंकारं चकारेत्याह - कृत्स्ने १. ७.]त्यादि । यच्छब्दोऽत्रापि सम्बध्यते । उत्तरत्रापि अभिसम्भन्त्स्यते । किंभूतः सन् यस्तमाश्रित इत्याह - विधूते[१. ६.]ति ।
सर्वथा निरस्तः सादरनिरन्तरचिरकालाभ्यासाऽऽयासो येन स तथा । मतद्वयाश्रयणेन' 25 सदाव्यापनेन इच्छाधीनत्वात् योग्यतया वा व्यापनेन उपयुक्तकास्न्थे कृत्स्नशब्दप्रयोगात्
सोपायहेयोपादेयात्मककृत्स्नज्ञेयविसर्पिणी चासावावरणादिलक्षणस्य मलस्यातिशयेन प्रहाणान्निर्मलप्रज्ञा चेति तथा। सैव परार्थोदयस्थानत्वादुदयाद्रिरिव तथा। तं श्रितः [ १. ७. ] प्राप्तः तद्योगी ‘जात इति यावत् । इदमेव च सर्वज्ञस्य पदं परमपुरुषार्थफलम् । एवंलक्षणफलसंपद्योगिन्यवस्था फलावस्थेत्युच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org