________________
पण्डितदुर्वेक मिश्रकृतो
हेतुबिन्दु टीकालोकः ।
[16] । 'नमो बुद्धाय ।
प्रहीणावृतिसंघातं प्रणिपत्य तथागतम् । विवृणोमि यथाशक्ति भट्टार्चटगुरोर्गिरः ॥ अभिमानधना ये च ये च बुद्धिधना जनाः । न तदर्थमयं यत्नस्तस्मान्नैव निरर्थकः ॥
स्वेष्टदेवतानमस्त्रिया हि पुण्यप्रसव भूमिरितश्चान्तरायरहिता ईप्सितपरिसमाप्तिर्भवतीत्यागमाद्वेदिता शिष्टाचारानुरक्षणधर्मा ' चायं धर्माकरदत्तो हेतुबिन्दुटीकां चिकीर्षुरादित एव स्वाधिदैवतं स्तुतिपुरःसरं नमस्यति । नमस्कार श्लोककरणे चाक्षेपपरिहारौ धर्मोत्तरप्रदीपा - दितनीतिदिशा अनुगन्तव्यौ ।
आशयप्रयोगभेदेन हेत्ववस्थामुभयीं स्वार्थपरार्थप्रकर्षभेदेन फलावस्थां द्वयीं दर्श- 10 यिष्यते । अस्य हेतुफलावस्थोपदर्शनं मुनीन्द्रस्य नमस्याभिमता । बोधिसत्त्वावस्थायां हि भगवान् अनेकजन्माभ्यासयोगात् कल्याणमित्र संपर्काच्च प्रथममाशयविशेषसम्पदमुदपीपदत् । यामिह प्रणिधिबोधिचित्तमातिष्ठन्ते तत्त्वविदः । तस्य परस्तादाशंसितार्थसंपादनाय प्रयोगविशेषमशेषमकार्षीत् । यं प्रस्थान बोधिचित्तमाचक्षते । तस्योपरिष्टात् प्रयोगविशेषप्रकर्षप्राप्तेः परमपुरुषार्थफलं सकलमलब्ध । अथातः सत्त्वोपकारं विविधमबाधितं व्यधित ।
अत एवायं यः संजाते [ पृ. १. पं. ५ [त्यादिनादौ कण्ठोक्तामकृत आशयावस्थाम् । तदनु पुण्यज्ञाने [ पृ. १. पं. ६. [त्यादिना प्रयोगावस्थाम् । तस्य पश्चात् कृत्स्ने[ १. ७. ]त्यादिना फलावस्थाम् । तदनन्तरं लोक [ १. ८. ] इत्यादिना च सत्त्वोपकारावस्थामिति ।
Jain Education International
उपकार्योपकारिणोः समं प्रवर्तमाना निरन्तरमुदीयमाना च महत्त्वयुक्ता महती च सा दुःखात् दुःखहेतोर्वा समुद्धरणकामता नाम या करुणा तदात्मिका कृपा चेति तथा । संजाता 'महाकृपा यस्य स तथोक्तः ।
किं कर्तुं स तथाविध इत्याकांक्षायामाह - त्रातुम् [ १. ५. ] इति ।
5
यत्र च एवंविधो जिनरविः [१८] तं नमस्यामि [१८] नमस्करो - 20 मीति सम्बन्धः ।
For Private & Personal Use Only
15
25
www.jainelibrary.org