________________
२४८
पण्डितदुवैकमिश्रकृतो
[पृ. ४. पं. २२" विवक्षातोऽप्रयोगऽपि तस्यार्थोऽयं प्रतीयते " इति च भावः अवधारणात् [४.२२] इति ध्रु(अ)वतः । तद्व्युत्पादनार्थमित्यत्रापि अर्थग्रहणसम्भवाद् 'अत्रे[४.२ ४]त्याह ।
इति: [४.२ ४] पदस्याकारं दर्शयति । स्वलक्षणविषयं [४.२ ४] वस्तुविषयम् , 5 न सामान्यविषयमित्यर्थात् ।
कथमर्थविषयत्वाभिधानेऽनुमानप्रामाण्यस्य स्वलक्षण विषयत्वमुक्तं भवतीत्याहअर्थे[४.२५]ति । ___ एवमेवाचार्यस्य तथाभिधानं सङ्गच्छते नान्यथेति दर्शयितुमाह-अत एव [४.२६]
इति । अनुमानप्रामाण्यस्य स्वलक्षणविषयत्वादेव । अन्यथा ' प्रत्यक्षव्यवस्थायाः ' इति 10 विशेषो(ष्यो )क्तं स्यात् न सामान्येनेत्याशयः । अत्र प्रामाण्यस्य वस्तुविषयत्वादन्येन
सामान्यविषयत्वप्रकारेण तत्र [४.२७] स्वलक्षणे, नान्यविषया'ज्ज्ञानादन्यत्र प्रवृत्तियुक्ता, अतिप्रसङ्गादिति भावः।
ननु सामान्यमपि वस्तु, तेन तदर्थक्रियार्थितयैव प्रवृत्तिरुपपत्स्यत इत्याह-सामान्यस्यति [५.१] । अपिना [५.१] वस्तुत्वेऽभ्युपगमं दर्शयति । 15 तस्यामेवार्थक्रियायां प्रवृत्तिर्भविष्यतीत्याह-तस्याश्च [५.२] इति । तदुत्प
त्तावेव [५.२] सामान्यालम्बनज्ञानोत्पत्तावेव । ___ तर्हि वाहदोहार्थक्रि'यार्थितयैव प्रतीते गोत्वे सामान्ये प्रवर्त्यतीति अत आह-न हि [५.२] इति । हिः अवधारणे ।
हेतुमाह-तस्य' [?] इति । अन्वयव्यतिरकाभ्यां तत्रैव तद्व्यापारावधारणादिति 20 भावः ।
भिन्नस्य सतः कार्यकारणभावादन्यस्य सम्बन्धस्याभावाद् 'अनुपकार्यतये[५.४]त्याह ।
अभ्युपेत्यापि सम्बन्धमिदानीमाह-सत्यपि [ ५.५ ] इति । च: [ ५.५ ] वक्तव्यान्तरसमुच्चये ।
धूमार्थिनोपि धूमप्रतिपत्तौ धूमध्वजे प्रतिपत्तिः प्राप्नोति: इति इष्टं धर्ममतिक्रान्तः 25 प्रसङ्गः अतिप्रसङ्ग[५.६]स्तस्माद्धेतोः ।
१. आलोकसम्मतः ' अत्राथग्रहणं' इति पाठः । S ' अर्थग्रहणं' । २. ' तदुत्पाद्यत्वेन'। ३. स्वलक्षणस्यैव S। ४. ' अनुपकारकत्वेन] ' S | .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org