________________
२२८
हेतुबिन्दुटीका। इत्यनेन वाक्येन न सपक्षे भाव एवोच्यते। किं तर्हि ?। असपक्षेऽभावोऽपि, तथा चेतरेणाप्यसपक्षेऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावोऽपि, येन केवलवचनेन भावोऽभावो वा तदात्मकतया द्वितीयमाक्षिपेद् यतोऽनयोः पृ. 5 थग्वचनं न स्यात् । तस्माद् यदाऽन्वयव्यतिरेको भावाभावावभिप्रेतौ तदा तौ भिन्नरूपावेवेति कथं तयोः न पृथक्त्वम् ? । अथ नियमवता वाक्येनाभिहितौ तदैकवाक्यादेवोभयगतेः पृथग्वचनं न कर्त्तव्यमेव । तत्तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थमित्युक्तमेतदिति । 10 स्यान्मतम् - यथाऽन्वयव्यतिरेको भावाभावलक्षणो न परस्परात्मको ततश्च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशास्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम् , न तत्रान्तर्भतम् , ततो रूपान्तरं भविष्यतीत्यत [T. 374b.] आह -
" नैवम् ". यथाऽन्वयव्यतिरेकौ भावाभावलक्षणौ परस्परमनन्त15 भूतौ , न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्येऽन
न्त तम् । कुतः।" परोपलक्षणात् "-परे उपलक्ष्यन्ते [S. 215b.] उपलक्षण(णं) त्रैरूप्यविषयां प्रतीति कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्माव्यतिरेकादागृहीत
ज्ञाने त्रैलक्षण्येऽन्तर्भावादिति यावत्, “इति" तस्मान्न लक्षणान्तरं 20 त्रैरूप्यादिति । तदयमत्र समुदायार्थः - यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उत्तेन प्रकारेण ज्ञानमेवोच्यते तदा तल्लिंगस्यानात्मभूतमिति न तल्लक्षणम् । अथावि(पि) ज्ञानापेक्षः कर्मभावो ज्ञातत्वमुच्यते तदाऽपि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिवन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानमाक्षिपति । त25 तस्तदपेक्षोऽपि कर्मभावोऽनुक्तसिद्ध इति न तद्वचनं पृथकर्तव्यम् । तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्याव्यतिरेकादिति।
तदेवमबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्नाह - "तस्मान्न हेतुः षड्लक्षणः।" [T. 375a.] किं तर्हि ?। त्रैलक्षण्य एवेति।
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org