________________
२२७
मातस्वनिराकरणम् । सिद्धान्तवाद्याह - " वचनमेतत् " 'तत्रैव भावः' इत्यादिरूपम् " उभयमाक्षिपति ” प्रतिपादयति । कुतः १ । सामर्थ्यादुभयप्रतिपादनशक्तत्वात् । कथम् ? इति चेत्, आह - " एकस्यापि वाक्यस्य " कीदृशस्य ? । “नियमख्यापकस्य" 'सपक्ष एव भावोऽसपक्षे चाभाव एव' इति सावधारणस्य " द्वितीयाक्षेपनान्तरीयकत्वात् ” द्वितीयप्रतिपादन- 5 नान्तरीयकत्वात् । “ न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोरेकस्वभावता " भिन्नस्वभावानामप्यर्थानामेकवाक्येन प्रतिपादनात् । एकेनैव च लक्षणवाक्येनोभयगतावपि यत् " पृथगभिधानं " तत् “ प्रयोगनियमाथम् "। साधर्म्यप्रयोगे [T. 373b.] वैधर्म(i)वचनं न कर्त्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनमिति न पुनरेकाभिधाने- 10 नानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् । न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः परोपलक्षणार्थेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य [S. 214b.] प्रतिपादनाल्लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित् प्रयोजनमस्तीति नास्य पृथग्वचनं युक्तमिति ।
15 स्यान्मतम् - केवलावपि तर्येकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैकवाक्यार्थान्तर्भावादित्यत आह - "न पुनः केवलौ” एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परमाक्षिपतोऽन्तर्भवतः भिन्नरूपाणामप्यर्थानामेकवाक्यान्तर्भावदर्शनात् । ननु च नियमव- 20 न्तावपि भावाभावो केवलावेव, तयोः परस्पराक्षेपे केवलयोरपि तत्प्रसङ्ग इत्यत आह - " नियमवन्तौ च " सावधारणवाक्यप्रतिपादितौ " न केवलौ " किन्तु सहितावेव । कुतः । “ नियमस्य " सावधारणस्य वाक्यस्य " उभयरूपत्वात्” भावाभावप्रतिपादनात्मकस्वात्।
. 25 तदेवं सावधारणेन [T. 374a.] वाक्येन नैव केवलोऽन्वयो व्यतिरेको वाऽभिधीयते । तदन्तर्भावात्तु द्वितीयगतिः किन्तु परस्परानन्तर्भूतावेव सहितावेकेन वाक्येनाभिधीयते इति प्रतिपायोपसंहरन्नाह - “ तस्मात् ” तत्रैव [S. 215a.] सपक्ष एव भाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org