________________
हेतु बिन्दुटीका ।
सपक्षे भाव उच्यते, व्यतिरेकः पुनरभावोऽसपक्षे । न च तौ परस्परमाक्षिपत: [T. 372b.] परस्परमन्तर्भवतो विधिप्रतिषेधरूपयोर्भिन्नस्वभावत्वात् । न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तो । ननु च यद्यन्वयव्यतिरेकयोर्भिन्नरूपता कथं 5 तर्हि त्रिरूपं लिङ्गमुच्यते ? । नहि परस्परभिन्नावात्मानावेवास्य युज्येते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य । नैष दोषः, यतो यथाऽन्वयव्यतिरेकौ [S. 213b.] व्यवस्थाप्येते न वा नयो ( ० प्येते तथा तयो ) रनन्तर्भाव उच्यते नान्यथा । कथं चैतौ व्यवस्थाप्येते ? | व्यावृत्तिकृतं भेदमुपादाय । तथा चानयोर्भिन्नरूपतैव । 10 व्यावृत्तिभेदेऽपि च परमार्थतो भेदो नास्तीत्येकं लिङ्गं त्रिरूपमित्युच्यते इति ।
1
२२६:
कथं तर्हि प्रागुक्तंम् 'नानयोरर्थतः कश्चिद् भेदः, अन्यत्र प्रयोगभेदादू' इति ? अत आह - " एकं वाक्यम् ” इत्यादि । अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तमेकं वाक्यमुभयमन्वयं व्यतिरेकं च 15 भिन्नलक्षणमेव गमयतीत्युच्यतेऽस्माभिर्नैकोऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोरेवैकवाक्यार्थरूपत्वात् ।
अत्र पर आह - " न तु तत्रैव " इत्यादि । अयमभिप्रायः लक्षणवाक्यप्रतिपादितावन्वयव्यतिरेकावाश्रित्य परस्परान्तर्भावश्चोद्यते । स च विद्यत एव। तथा हि ' तत्रैव भाव: ' इत्यत्र 20 लक्षणवाक्ये तदर्थतया तदभावेऽभावो गम्यते; ' अतद्भावेऽवश्यमभावः' इति [T. 3732.] चात्र 'तद्भावे भावः । न ह्यसति प्रतिबन्ध एकाभावेऽपरस्याभावः । प्रतिबन्धश्च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव । ततश्चैकेनैव सपक्षासपक्षयोर्भावाभावप्रतिपादकेन [S. 2142. ] प्रतिविशिष्टेन लक्षणवाक्येनोभय25 गतेर्द्वितीयवचनं न कर्त्तव्यमिति । तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावताऽप्यनयोर्दुर्लभा । ततश्च यदुक्तम् ' अन्वयव्यतिरेकयोरपि तर्हि न पृथक्त्वमिति ' तत् तदवस्थमेवेति ।
१. पृ० ७४. पं० १८-२१ । २. वेद्यते T. । ३. तत्रैवेत्यवधारणस्य तदर्थितया ।
Jain Education International
-
For Private & Personal Use Only
-
www.jainelibrary.org