________________
झातत्वनिराकरणम्।
२२५ भवो व्याप्त्या चासति साध्ये हेतोरभावो व्यतिरेकः । न च कचित् सति साध्ये [S. 212b.] हेतोर्भावदर्शनेऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमाऽभावात् । तथा कचित् साध्याभिमतस्याभावे सत्यभावदर्शनेऽपि हेतोः सर्वत्र तभावेऽवश्यमभावः, तदनायत्तस्य 5 तन्निवृत्तौ नियमेन निवृत्त्यभावात् । तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावी सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थमेव निश्चितग्रहणं कृतमित्युपदर्शयन्नाह - " तस्मात् " इत्यादि । “अस्माभिः" इत्याचार्यकृते निश्चितग्रहणेऽन्यत्रास्माकमभिमतत्वात् “अस्माभिः” इत्याह। 10
तदेवं विप्रतिपत्तिनिरासार्थ निश्चितग्रहणम् , असत्यां तु विप्रतिपत्तौ तन्न कर्तव्यमेवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भवतीति [T. 372a.] दर्शयन्नाह - “यतोऽपि” इत्यादि। "पृथगतः' इति पक्षधर्मत्वादेबैरूप्यात्। कुतः । तेनैव” त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपत: "अवगतत्वात्” प्रतिपन्नत्वा- 15 दिति । किंवत् ? "उपनयार्थवत् पक्षधर्मत्वात्” इति । यथा पक्षधर्मत्ववचनेनैव हेतोरुपनयस्यार्थोऽवगतस्तस्य धम्मिणि हेतोः सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो [S. 213a.] रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वादिति ।
20 अत्र परोऽनिष्टमापादयन्नाह - " अन्वयव्यतिरेकयोरपि " इत्यादि। यदि त्रैरूप्यवचनेनैव सामर्थ्याज्ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् “ हन्त ” तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच पृथगन्वयः । किं कारणम् ? । एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगादुभयस्य गतेः । कृतं च तयोः पृथ- 25 ग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्त्तव्यमिति।
सिद्धान्तवाद्याह - “ न, हेतोः " इत्यादि। नान्वयव्यतिरेकयो पृथक्त्वं किन्तु भिन्नरूपतैव । तथा हि - अन्वयो हेतोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org