________________
२२४
हेतुबिन्दुटीका। सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् । तस्मादिदमेवरूपं नैवंरूपमिति तदाकारज्ञानोदयादेव व्यवस्थाप्यते । यत एवं तस्मात् सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विनाऽपि " तत्साधनं " तत्सत्तासाधनं प्रमाणम् “आकर्षति" आक्षिप5 तीति । किञ्च, परार्थत्वाच शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिराक्षिप्यते इति सम्बन्धः । कीदृशं पुनस्तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणमाक्षिपति ? इत्याह - “त्रिरूपं लिङ्गं वः संवादकं प्रापकं " [T. 371a.] वाञ्छितस्यार्थस्येति । यदि नामैवंरूपं परार्थ शास्त्रप्रणयनं तथापि कथं 10 तत् साधनप्रमाणवृत्तिमाक्षिपतीत्याह - " तद्रूपं " तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेषां ततस्त्रिरूपाल्लिङ्गाच्छास्त्रोक्तादू वाञ्छितेऽर्थे प्रवृत्तिर्भपति, अज्ञातस्यार्थस्य [S. 212a.] ज्ञापकस्य स्वसत्तामात्रेण प्रव
तकत्वाभावात् । यत एवम् " इति " तस्मात् परोपलक्षणत्वादेव 15 परेषां ज्ञापकत्वादेव प्रवर्तके त्रिरूपलिङ्गे ज्ञानं सिद्धमिति यद्यपि निश्चितग्रहणमतिरिच्यते तथापि तावेव लिङ्गस्य सपक्षासपक्षयोर्भावाभावी विशिष्टौ शास्त्रोक्तो 'सपक्ष एव भावोऽसपक्षे चाभाव एव' इत्येवंरूपौ केचिन्नैयायिकप्रभृतयः, परे दर्शनादर्शनमात्रेण - ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः - तन्मा20 त्रेण व्यवस्थापयन्ति " यत एव' इति ” तस्मात्तेषां वादिनां निषेधार्थोऽयं लक्षणे निश्चितशब्दः प्रयुक्त आचार्येणास्माभिश्चाभ्युपगत इति । यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासी प्रयुज्यतेति।
किमिति पुनदर्शनादर्शनाभ्यां भावाभावविषयाभ्यां 25 सपक्षा[स]पक्षयोः विशिष्टौ भावाभावावन्वयव्यतिरेकात्मको [T. 371b.] नेष्येते इत्याह - “ सतोरपि , इत्यादि। सत्यपि कचित् सपक्षे भावदर्शने हेतोः कचिचासपक्षेऽभावदर्शने 'स श्यामः, तत्पुत्रत्वात्' इत्यादावन्वयव्यतिरेकयोः संशयात् । तथा हि - अन्वयो नाम सर्वत्र सत्येव साध्ये हेतो१. एवं T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org