________________
ज्ञातत्वनिराकरणम् ।
"
ननु च परेऽपि सपक्षविपक्षयोर्भावाभावाभ्यां गमकं हेतुमिच्छन्ति, दर्शनादर्शने तु तयोरेव साधके, तत् किमर्थ निश्चि तग्रहणम् ? इति अत आह " तौ हि ” इत्यादि । यद्यपि परे भावाभावाभ्यामेव गमकं हेतुमिच्छन्ति तथापि सपक्ष एव भावोऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो 5 व्यवस्थापयन्ति । न च ततस्तौ तथाविधौ सिध्यतः, प्रतिबन्ध - विकलानामप्यर्थानां कचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् । तस्माद् [S. 211a ] यौ ' हेतो: सपक्षे एव भावोऽसपक्षे चाभाव एव ' इत्येवमात्मकौ भावाभावौ तौ तद्भावस्य साधकं यत् प्रमाणं तादात्म्यतदुत्पत्तिसाधनविषयं तद्वृत्त्या बो- 10 द्धव्यौ । कुतः ? उपायान्तरस्याभावात् । तद्नभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेषां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्व्वार्थानां हेतुविविक्तानां उपलम्भे सति स्यात् । न चैतदसर्व्वदर्शिनः सम्भवतीति । यत उपायान्तरं नास्ति तेन कारणेन तयोर्विवशिष्ट - 15 योर्भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षणे लक्षणकारेणेति ।
-
२२३
ननु च भावाभाववचनमात्रादेव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोरेव सत्ता न प्रसिध्येदिति, अंत आह " यद्यपि " इत्यादि ।
20
Jain Education International
"अनुमेयेऽथ तत्तुल्य सद्भावो नास्तिताऽसति । " इत्यनेनैव सपक्षासपक्षयोः [T. 380b.] भावाभाववचनमात्रेण निश्चितग्रहणनिरपेक्षेण तयोर्भावाभावयोर्यत् साधनं प्रमाणं तस्य वृत्तिर्यद्यप्याक्षिप्यते । कथं पुनर्निश्चितग्रहणमन्तरेण भावाभाववचनमात्रतस्तद्वृत्तेः आक्षेप: ? इत्याह- " अन्यथा " यदि 25 तत्साधनप्रमाणवृत्तिर्नाक्षिप्येत [S. 211b.] तदा "तयोरेव" सपक्षविपक्षयोरेव भावाभावयोर्या सत्ता स्वरूपव्यवस्था तस्या अप्रसिद्धेः” । कस्मादप्रसिद्धि: ? इत्याह - "ज्ञानस्य" उपलब्धेर्या सत्ता उत्पत्तिः तन्निबन्धनत्वाज्ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः । न ह्युपलम्भमन्तरेण स्वत एवार्था: 30
,
66
For Private & Personal Use Only
www.jainelibrary.org