________________
हेतुबिन्दुटीका ।
मातुः "आदि" शब्दात् संयोगसमवायादीनामालोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् । अत्र कारणमाह - " नहि तेष्वपि " प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा । अत्र परोऽनिष्टमापादयन्नाह " निश्चितग्रहणं तर्हि " इत्यादि । यदि पररूपत्वा5 ज्ज्ञानं लिङ्गलक्षणं न भवति तदा च यदेतदाचार्येण
" अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽसति । निश्चिते"ति
निश्चितग्रहणं कृतं भवतश्चाभिमतं [T. 369b.] तन्न कर्त्तव्यम् । तथा हि - निश्चयो हि लिङ्गस्य पररूपमेव । स चेत् तल10 क्षणम्, ज्ञानं किमिति नेष्यते यतो निश्चयो विज्ञानमेव तद्विशेषत्वादस्येति ।
सिद्धान्तवाद्याह " न न कर्त्तव्यं " किन्तु कर्तव्यमेव तस्य [S. 210a.] निश्चितग्रहणस्य लिङ्गरूपप्रतिपादनादन्यार्थत्वात् । तामेवान्यार्थतां दर्शयन्नाह - " सपक्षविपक्षयोः " इत्यादि । परे हि स15 पक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुमिच्छन्ति । तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थी हेतुर्भवतीति ज्ञापनार्थे निश्चितग्रहणं कृतम् । यतः सतोर्विद्यमानयोरपि दर्शनादर्शनयोरगमकत्वं हेतोर्दृश्यते ' स श्यामः, तत्पुत्रत्वात् ' इत्यादौ । यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्व्वत्रा20 भावविशिष्टेनाऽसपक्षे च सर्व्वत्राभावेन सपक्षे तादात्म्यतदुत्पतिलक्षणभावविशिष्टेन गमको हेतुरित्यस्यार्थस्य ज्ञापनार्थ लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् । एतदुक्तं भवति - यावेव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्यामेव हेतुर्गमको भवति न तु यथाकथञ्चिद्दर्शनमात्रेणेत्य25 स्वार्थस्य [S. 210b.] ज्ञापनाय निश्चितग्रहणं कृतमिति ।
2
Jain Education International
-
SO
प्रकृतमुपसंहरन्नाह - " तेन " इत्यादि । येन विशिष्टयोर्भावाभावयोरेव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय अनात्मरूपस्य [T. 370a.] च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति । यतः तेन ज्ञानादिना पररूपेण 30 लिङ्गस्य न कश्चिद् रूपविशेषोऽभिधीयत इति ।
3
For Private & Personal Use Only
www.jainelibrary.org