________________
शातत्वनिराकरणम् ।
२२१ स्वतन्त्राणामन्वर्थाश्रयणात् तत्कल्पितविषयादर्थप्रेतिपत्तावनर्थप्रतिलम्भ एव स्यात्" इति । तस्माद् बाह्यवस्तूपादानस्यैवास्य लिङ्गताऽवस्थाप्यते । साध्यसाधनसंकल्पे वस्तुदर्शनहाने: स्वलक्षणस्य कचिदनन्वयाच तद्धर्मतामेव त्वनुस्मरन्तो विकल्पा नानैकव्यतिरेकान् संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धादविसंवादकाः कार्यादिलिङ्ग- 5 व्यपदेशनिबन्धनं चेत्युक्तप्रायम् ।
न च तस्य कार्यादेरात्मरूपं [S. 209.2a.] ज्ञानम् । विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात् । तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात्। यस्मादबाह्यस्यापि बाह्यतया व्यवसित- 10 स्थाननुयायिनोऽप्यनुयायितया सामान्यात्मकत्वं तथात्वे चास्य विकल्परूपता कुतः ? यदाऽऽह -
" ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् ? ॥
तस्मान्मिथ्यावभासोऽयमर्थेष्वेकात्मताग्रहः।" [प्रमाणवा० ३.७०,७१] इति। न ज्ञानस्य लिङ्गधर्माता। एतदेव साधयन्नाह - " किंरूपाद् ” 15 इत्यादि । किमात्मकात् “ हेतौरनुमेयोऽर्थो ज्ञातव्यः इति चिन्तायां" प्रकृतायां "प्रतिपत्तः” पुंसो यदविसंवादकं लिङ्गं तस्य स्वरूपमभिधीयते शास्त्रकारैः [T. 369a.] यस्य रूपस्य दर्शनादयं प्रतिपत्ता 'यत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलमसाधनम् । इति प्रविभागेन व्यवस्थाप्य यत्तत्र साधनस्वेन व्यवस्थापितं तस्येष्टार्थ- 20 सन्निधानसम्प्रत्ययात् प्रवृत्तिमवलम्बते । तथा, एतस्मिंश्च न्याये [S. 209. 2b.] व्यवस्थिते यदस्य लिङ्गस्यात्मरूपं तल्लक्षणं भवितुमर्हति पक्षधादिवत् न तु यत् पररूपम् ।
स्थादेतत् - ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिइयुपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्यत आह - " प्रतिपत्तिजन्मनि " 25 इत्यादि । यद्यनुमेयप्रतीतिजन्मन्युपयुज्यते ज्ञानमिति तन्मात्रेण लिङ्गस्य लक्षणमिष्यते तदाऽतिप्रसङ्गः प्रामोति । तमेवाह - " एवं प्रतिपत्तिजन्मन्युपयोगमात्राल्लिङ्गलक्षणत्वे प्रमेयस्य अर्थस्य " पुरुषस्य " प्र
१. तैर्विकल्पैः कल्पितो योऽसौ विषयोऽवग्रु (१)रूपो न धूमत्वादिः । २. वह्नित्वादि । ३. वस्तुदर्शनाप्रवृत्ता (2)॥ ४. नानाभूतानां. यो बास्तवम्यतिरेक एकस्य च व्यावृत्तिपरिकल्पितस्तं दर्शयन्तः।... . . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org