________________
२२०
हेतुबिन्दुटीका। स्वभावत एव धम्मिण्येकत्र तयोर्भावे विरुद्धावुभौ स्वभावावेकस्य स्याताम् । न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् । अथ द्वितीयो विकल्प स्तदा "अतद्धर्मभावी च" असत्यपि साध्यधर्मे भवनशीलः प्रति 5 बन्धानभ्युपगमात् "कथमन्यदाऽपि” अप्रदर्शितप्रतिहेत्ववस्थायामपि
"साधनं" कस्यचित् ? । नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायामिति । _ उपसंहरन्नाह - " तस्मात् स्वभावतः ” इत्यादि । यत एवं भा
वानां स्वभावोऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश्चैको 10 न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन [S. 209.1a.] साध्येनाविनाभाविनोर्यथोक्तलक्षणयोः [T. 368a.] कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोरसम्भवाद् "अलक्षणमेकसंख्याविवक्षा " विवक्षितैकसंख्यत्वं लक्षणं न भवति । किं कार
णम् ? इत्याह - " व्यवच्छेद्याभावादिति " । प्रतिहेतुर्हि विवक्षितैक15 संख्यत्वस्य व्यवच्छेद्यो वर्ण्यते । स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्य-स्वभावयोन भवत्येवेति कथं तहेतुलक्षणं स्यादिति । तदेवमनयोईयो रूपयोर्यः सम्भवो यथोक्ताविनाभावाऽसम्भवे सतीति रूपान्तरोपगमेऽपि हेत्वाभासतैवेति " हेत्वाभासास्ततोऽपरे
इति " इत्यस्यार्थो विवृत इति । 20 ज्ञातत्वनिराकरणायाह - " ज्ञानं पुनः” इत्यादि । अबाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्य-स्वभावहेत्वोरेवाविनाभावे सति बाधाप्रतिहेत्वोरसम्भवात् व्यवच्छेद्याभावत्वेन सत्यपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्युक्तम्। ज्ञानं तु ज्ञातत्वम् , तस्यैव [S. 209.1b.] भावप्रत्ययेनाभिधानात् । तथा हि-ज्ञान25 शब्दप्रवृत्तिनिमित्तं ज्ञातत्वमुच्यते, तच ज्ञानमेव , तदुत्पादे सति ज्ञात इति व्यवहारात्। न च तत् लिङ्गस्यात्मरूपमिति [T. 368b.] कथं लिङ्गलक्षणं भविष्यति । यद्यपि विकल्पप्रतिभासी सामान्याकारो लिङ्गत्तयाऽवस्थाप्यते तथापि न ज्ञानस्य लिङ्गधमता। न ह्यसौ स्वतन्त्र एव लिङ्गम् । यदाह - " विकल्पभेदान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org