________________
विरुद्धाव्यभिचारिहेत्वाभासनिरासः ।
दयेन” स्वर्गेण " निःश्रेयसेन ” चापवर्गेण “योजयित्वा " । तथा हिवस्तुतत्त्वं भावयन् यावत् क्लेशान्न प्रजहाति तावत् स्वर्गमासादयति, केशांस्तु प्रजहन्निर्व्वाणपरायणो भवति । अथवा शब्दनित्यत्वप्रतीती वेदप्रामाण्यात् तद्विहिताग्निहोत्रानुष्ठानात् स्वग्ग वेदान्तनिषेवणादपवर्गः । पुनरुत्तरकालं "प्रेतिभावता" प्रज्ञाजाती- 5 येन वैशेषिकादिना पुरुषेण " हेत्वन्तरस्य " [T. 367a.] प्रतिहेतोः “निदर्शनेन” यदस्य " नित्यत्वसाधनसामर्थ्यं " प्रतिहेत्वनुपदर्शने सत्यासीत् तदुपदर्शनेन "उत्कीलितम् " अपनीतमिति । तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश्च तत्प्रमाणकान् पुरुषान् स्वग्र्गापवर्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् 10 परित्रातुमशक्तो भ्रष्टराज्य इव राजा तपोवनं गच्छति स्वैरेव दुश्चरितैरिति किमत्र वयं ब्रूमः ? ।
तदेवमुपहस्यैतस्मिन् पक्षे [S. 208a ] दोषमुपदर्शयन्नाह-“ पुरुषप्रतिभा ” इत्यादि । यदा प्रदर्शितप्रतिहेतुर्हेतुरिष्यते तदा पुरुषप्रतिभाकृतं साधनत्वमभ्युपगतं भवति । ततश्च वस्तुतो न 15 किञ्चित् साधनमसाधनं वा प्राप्तम् । तथा हि - यदा प्रतिहेतुर्नोपदश्यते तदा साधनम् यदा तूपदर्श्यते तदा न साधनमिति पुरुषप्रतिभाकृतं साधनत्वमायातमिति ।
अपि च - अप्रदर्शितप्रतिहेतोर्हेतोर्हेतुत्वेऽङ्गीक्रियमाणे विकल्पद्वयम् - किं परमार्थतो हेतुस्तद्धर्म्मभावी, उताsतभा- 20 वीति । तत्राद्यं विकल्पमधिकृत्याह – “सच” हेतुर्योऽसौ प्रथमं उपादीयते । स "यदि स्वभावत" एवं " तस्मिन् " साध्यधर्मे “ सत्येव भवति ” इत्येवंशीलोऽस्मदुपवणितप्रतिबन्धोपगमात् [T. 367b.] यदीष्यते “ तदा कथमन्यथा क्रियेत " हेत्वन्तरेणातद्धर्मभावी कथं क्रियेत ? । न कथञ्चित् । किं कारणम् ? । वस्तूनां [S. 208b. ] हेतुलक्ष- 25 णानां यः स्वभाव:- 'सत्येव साध्यधर्मे भवनात्मकः " - " तदन्यथाभावस्य” तद्विपर्ययस्य " अभावाद् " उभयोश्च स्वसाध्यधर्माविनाभावित्वे
२१९
१. त्रानु न० T. । २. प्रति भवता T. ३. °षेण अकृतकत्वाद् हे° - T. । ४. कृतकत्वादि । ५. तदु पु० T. । ६. कात् पु० । ७. दुश्चेष्टितैः न० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org