________________
२१८
हेतुबिन्दुटीका। यल्लक्षणं हेतोः [T. 366a.] तस्यानिश्चितत्वादेकसंख्याविवक्षावादिनां न कश्चिहेतुः स्यात् । न त्यनिश्चितलक्षणो हेतुर्भवतीत्युपसंहार इति ।
तदेवं 'किं यो वस्तुतोऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविप5 र्ययहेतुरिष्टः' इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षराह - “ अथाप्रदर्शितप्रतिहेतुः " सम्यग्ज्ञानविपर्ययहेतुरिष्ट इति सम्बन्धः। अयं च पक्षः किल दिङ्गागाचार्यस्याप्यभिमत इति पर उपदर्शयन्नाह – “ यथाह दिङ्नागाचार्यः ” । किमाह ? " यदा तर्हि " इत्यादि। " श्रावणत्वस्य हि न कथञ्चिद्यवच्छेदहेतुत्वम् " इति 10 दिडागाचार्येणोक्ते परेणाभिहितम्- “ यदा तर्हि वैयाकरण: शब्दत्वं
सामान्यविशेष नित्यमभ्युपगच्छति तदाऽयं श्रावणत्वलक्षणः पक्षधर्मः हेतुरेव स्यात् । नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्" इत्येवं परेणोक्ते सत्याचार्येणोक्तम्
" यद्यत्र शब्दाख्ये धर्मिण्यनित्यत्वहेतुं कृतकत्वप्रयत्नानन्तरीयकत्वादिलक्षणं 15 कश्चिद् वैशेषिकादिर्न देशयेत् तदाऽयमप्रदर्शितप्रतिहेतुहेतुरेव भवेत् ” इति ।
तदेवमाचार्यपादैः साक्षित्वे दत्ते भुजमुत्क्षिप्य शास्त्रकारः पूत्कुर्वन्नाह - “ इदमिदानीम् ” इत्यादि । यदा त्याचार्यस्याप्येतद्भिमतमिति [T. 366b.] कैश्चिद्याख्यायते तेदिदं सुमहब्यसनमा
यातम् - गुरुभिरभिहितत्वादप्रकाश्यम् , नहि गुरूणां दोषः प्र20 काशयितुं युक्तः, “ न्यायमनुपालयद्भिः असंवरणीयम् ” अप्रच्छादनीयम् । तत् किं गुरून दूषयाम उत न्यायमप्युपेक्षामहे इत्युभयमप्यशक्यमिति " कष्टतरं व्यसनं कथं निर्वोढुं शक्येत ? "। न कथंचिदिति । कः पुनरत्र दोषो येनेदं कष्टतरमित्याह - " स तावदयं " श्रावणत्वलक्षणो " हेतुर्वस्तुनि” शब्दादीनि स्वसाध्यं तत्त्वं 25 नित्यत्वं “तत्प्रकृतीनि" तदात्मकानि “ कृत्वा " [S. 207b.] तच्छावणत्वं प्रमाणं येषां पुरुषाणां मीमांसकवैयाकरणादीनां तान् “अभ्यु
१. निद° - न० T.। २. °चार्य पूज्यपादैः - पु० । ३. पृथक्कुर्वन् – न० । ४. इदमित्यादि' - पु.। ५. यदाचार्य - पु०। ६. तदैवं सु० -पु०। ७. गुरुं - पु०। ८. यमुपे० - पु०। ९. °मश० - पु०। १०. °ध्यत° - न० T. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org