________________
विरूद्धाव्यभिचारिहेत्वाभासनिरासः।
२१७ स्त्येव । ततः स तथाविधो हेतुभविष्यति, तत् कथं हेत्वमावोऽस्माकम् ? इत्यत आह - " न च " इत्यादि। येषामपि हि प्रतिहेतुः सम्भवति तेषामपि नैव सर्वदा तस्य प्रतिहेतोरुपलब्धिः प्रतिपत्तृणाम् । न यसर्वदर्शिनामुपलब्धिः सर्वभावसत्तां व्यामोति, प्रतिबन्धवैकल्यसद्भावात् । ननु च यत्र सर्वदैव प्र- 5 तिपत्रा(रा) प्रतियोगी न दृश्यते तत्र तदाशङ्का [S. 206a.] कथं क्रियते ? । तथा चाह -
___" बाध(धा)शाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" इति । तथाऽपरम् - " उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् ।
10 स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥” इति । अत आह - “ अतिशयवती तु " इत्यादि । तथा हि कस्यचिदेव प्रमातुः कुशाग्रीयमतेरतिशयवती प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टाऽस्माभिः यथा वेदप्रामाण्यनिराकर्तृषु [हेतुषु] सौगतैः शिष्यपरम्परया कुमारिलोत्पादात्प्रागदृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव 15 प्रज्ञातिशयशालिना प्रतिहेतव उत्प्रेक्षिताः ततस्तदर्शनात् यावज्जीवं अष्टप्रतिहेतुष्वपि तदाशङ्का न निवर्त्तते । ततः कथमाशङ्का निष्पमाणिकोच्यते ? । “ तुल्यलक्षणे हि " इत्यादिकमपि प्रतिपोगिसम्भवाशङ्काकारणमुक्तमेव । न च प्रतियोगिसम्भवमाशङ्कमानस्तन्निमित्तसंभवात् उत्प्रेक्षेत हि , इत्याद्याक्रोशमा- 20 त्रेण निवर्तयितुं शक्यते। तेनास्य प्रतियोग्याशङ्कापनोदक्षम किञ्चित् कारणमभिधानीयम् यथाऽस्माभिरभिहितं 'खभावहेतोर्विपर्यये बाधकप्रमाणवशासादात्म्यनिश्चये सत्यन्वयव्यतिरेकयोस्तत्र निर्णय ; [S. 206b.] कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस्तन्निश्चय' इति । यत एवं सर्वत्र 25 प्रतियोग्याशङ्का न निवर्तते भवदर्शने तेन कारणेनानिश्चयः प्रतियोगिनः सम्भवासम्भवयोः 'इह प्रतियोगी सम्भवति इह तु न सम्भवति ' इत्येवंरूप इति । तस्माबस्तुतोऽसम्भवत्प्रतिहेतुत्वं . १. This verse is omitted in the T.। २. प्रतिपत्तु ।
२८ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org