________________
२१६
हेतुबिन्दुटीका। कत्र धम्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुडाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् । न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति । नहि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतिबन्धवत्येकत्र हेतौ कचिडम्मिणि संभ5 वति द्वितीयस्तल्लक्षणस्तत्रैव हेतुः सम्भवेत्, [T. 364b.] भावानां विरुद्धखभावन्यासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । तव्यभिचारिणो हेतोद्वितीयस्य तत्र कुतः सम्भवावकाश इति ।
ननु यदि तथाविधविशेषसम्भवे [S. 205a.] सति विरुद्धा10 व्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यर्था, तथापि नैव हेत्वभावप्रसङ्गः, तत् किमुक्तं हेत्वभावो वेत्यत आह - " न च " नैव "तस्य' विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतोऽसम्भवत्प्रतिहेतुत्वं निश्चीयते । “स्वरूपं" तादात्म्यतदुत्पत्तिलक्षणं निर्दिश्यते भवद्भिः यथाऽस्माभिर्निर्दिष्टं यद्रूपं "प्रतीत्य” प्रतिपद्य 15 प्रतियोगिनः सम्भवासम्भवावुत्पश्यामः । यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रयेऽनुमाने । यत्र त्वस्ति स विशेषो वस्तुबलप्रवृत्तेऽनुमाने तत्र प्रतियोगिनोऽसम्भव इति । यत एवं तस्मानास्त्येव भवतां स विशेष:-भवद्भिर्न ज्ञायत एव स विशेष इति । तस्मात् सर्वत्र यत्रापि प्र20 तियोगी न दृश्यते तत्रापि शङ्कया प्रतियोगिविषयया भवितव्यम् । तामेव शङ्कां द्रढयन्नाह – " दृष्टप्रतिहेतोरपि ” इत्यादि । यस्यापि [S. 205b.] हि प्रतिहेतुर्दृष्टस्तस्यापि प्राक् प्रतियोगिदर्शनादितरेण सर्वकालमदृष्टप्रतियोगिना न कश्चिद् विशेषो लक्ष्यते [T. 365a.] यदर्शनाज्ज्ञायेत 'अत्र प्रतियोगी सम्भवति न्यान्यत्र' 25 इति दर्शनादर्शनमात्रनिबन्धनयोरन्वयव्यतिरेकयोः सर्वत्र
समानत्वात् । तथापि पश्चात्तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न निवर्त्तत इति ।
स्यान्मतम् - येषु प्रतियोगी सम्भवति तेष्वश्यमेव कदाचिदसावुपलभ्यते । येषु तु पुरुषायुषेणापि नोपलभ्यते तेष्वसौ ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org