________________
विरूद्धाव्यभिचारिहेत्वाभासनिरासः ।
२१५ अत आह - " तुल्ये लक्षणे हि " इत्यादि । शङ्कायमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः [T. 363b] प्रतिहेतोर्बाधकस्य सम्भवः स येषामपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्वपि शङ्कां प्रतिहेतुसम्भवविषयामुत्पादयति । किं कारणम् ? । अदृष्टप्रतियो- 5 गिनो दृष्टप्रतियोगिनो विशेषाभावात् । नहि तस्येतरेण कश्चिद्विशेषोऽस्ति , यतस्तत्सम्भवो न शङ्कयेत । पुरुषशक्तिवैकल्यादिना तु तदर्शनं सम्भाव्यतेति किमुच्यते 'नाशङ्का निःप्र(प्र), माणिका' इति । अथ विशेषः प्रतिबन्धलक्षणोऽविनाभावनिश्चायको दृष्टप्रतिहेतोरदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भ-10 वाशङ्काऽस्तमुपैति । [S. 204a.] तदा सति वा विशेष स विशेषो हेतोर्लक्षणम् । किं कारणम् ? । यतस्ततो विशेषाडेतुरेकान्तेन निश्चयेन निरस्तप्रतिपक्षस्तथाविधे धम्मिणि प्रतिहेत्वसम्भवात् खसाध्यं निश्चाययतीति । यस्तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सोऽतल्लक्षणो न हेतुः स्यात् । तथा च यदि नामाs-15 हेतौ प्रतिहेतुर्दृष्टो, हेतोः किमायातम् , येन तन्निवृत्तये तत्रैकसंख्याविवक्षा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेरित्याह - " तथा च हेतौ " तद्विशेषयोगिनि “ प्रतिहेत्वसम्भवे " सति "व्यर्था" निष्प्रयोजना “ एकसंख्याविवक्षेति'। [T. 364a.] यथोक्तविशेषाङ्गीकरणे तल्लक्षणस्य प्रतिहेतोरसम्भवात् कस्यैकसंख्याविव- 20 क्षया व्यवच्छेदः क्रियते ? यतोऽस्य सार्थकत्वं स्यादिति ।
विरुद्धाव्यभिचारिणश्च हेत्वाभासस्य व्यवच्छेदार्थमेकसंख्याविवक्षा हेतुलक्षणे क्रियते । वस्तुतोऽसम्भवत्प्रतिहेतुत्वसिद्धये च प्रतिबन्धलक्षणे विशेषे हेताविष्यमाणे विरुद्धाव्यभिचार्यपि हेत्वाभासो न [S. 204b.] भवति । ततो व्यवच्छेद्याभावात् किमे-25 कसंख्याविवक्षया ? इति दर्शयन्नाह - " अतः " प्रतिबन्धलक्षणविशेषोपगमात् “ विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणं तद्धीयेत " न सम्भवेत् । किं पुनस्तद्विरुडाव्यभिचारिणो लक्षणम् ? इत्याह - " स्वलक्षण इत्यादि । हेतोर्यदात्मीयं लक्षणं तद्युक्तयोर्हेत्वोरे१. तद्दर्शनम् - T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org