________________
२१४
हेतुबिन्दुटीका। सिद्धान्तवाद्याह - यद्यसम्भवन् प्रतिहेतुर्यस्य स सम्यग्ज्ञानादिहेतुरिष्यते, तदाऽलक्षणमेतद् विवक्षितैकसंख्यत्वम् । कस्मात् ? । अशक्यो निश्चयो यस्य वस्तुतोऽसम्भवत्प्रतिहेतुत्वस्य स तथोक्तः । परमतापेक्षया चैतदुच्यते । परो हि दर्शनादर्शना5 भ्यामसत्यपि प्रतिबन्धेऽविनाभावमिच्छति । ततस्तस्य प्रतिहेतोरेवंविधस्य सम्भवोऽस्ति । स चानुपलभ्यमानोऽपि कदाचित् स्यादिति वस्तुतस्तद्भावो निश्चीयते । प्रतिवन्धनिबन्धनाविनाभाववादिनां त्वस्माकं [S. 203a.] प्रतिहेत्वसम्भवः सुनिश्चित
एव । नहि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे त10 निमित्ताविनाभावितया एकेन हेतुना स्वसाध्ये साधिते पुनस्त
त्रैव धम्मिणि तल्लक्षणस्य [T. 363a.] तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्कयते, भावानां विरुद्धस्वभावळ्यायोगाद्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । विरुद्धधर्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसि15 हुययोगादिति ।
स्यान्मतम् - यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवोऽस्माभिनिश्वेतुमशक्यस्तथाप्यसम्भवत्पतिहेतुत्वं विवक्षितैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान्न भवति ? इत्याह - " न ह्यनिश्चितात्मनः "
इत्यादि । प्रतिपादको यो धर्मों हेतोस्तस्यानिश्चितखभावस्य य20 स्मात् तल्लक्षणत्वं प्रतिपादकधर्मता न भवति । यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् । नापि सन्दिग्धं लक्षणं यस्य स हेतुर्भवतीति न कश्चिद्धेतुर्भवेदिति हेत्वभावो [S. 203b.] वा इत्यस्य समर्थनम् । ततश्च " हेत्वाभासास्ततोऽपरे " इत्यत्रापि योजितमिति । 25 स्यान्मतम् - यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात्
अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर्न दृश्यते स वस्तुत एवासम्भवत्प्रतिहेतुः। न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शयते, बाधकप्रत्ययमन्तरेण बाधाशङ्काया अयोगात् । तदुक्तम् - " बाधाशाने त्वनुत्पन्ने नाशा निष्प्रमाणिका" इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org