________________
एकसंख्या विवक्षाया निरासः ।
पर्ययेण विप्रतिपत्तिदर्शनादप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तमेवापक्षत्व न नि( त्वं निराकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्वतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेरिति ।
तदेवमबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्व्वन्नाह - 5 “ एतेन ” अविनाभावे सति बाधाया [T. 362a.] असम्भवदर्शनेन “ एकसंख्याविवक्षाऽपि ” विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना “प्रयुक्ता " प्रत्याख्याता ।
परः पृच्छति - " कथम् " इति केन प्रकारेण - यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविना भावयोरपि ?, येनैकसं- 10 ख्याविवक्षा तद्वदेव प्रत्याख्यायेत इति ।
२१३
सिद्धान्तवादी सोम्यं दर्शयन्नाह - " एक " इत्यादि । एको हि हेतुर्लक्षणयुक्तः । स्वसाध्याव्यभिचारी कथं भवति ? | यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणमविनाभावो नाम हीयेत । यत्रैव धम्मिणि स तल्लक्षण एको भवति तत्रैव धमिणि 15 तस्मादन्योऽपि प्रतिहेतुर्विरुडस्तेन हेतुलक्षणयुक्तः कथं भवति ? । एकस्य हेतोर्यत् साध्यं तद्वाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावादविनाभावादिति बाधया समानं बा - धासम्भवेन समानः प्रतिहेतुरिति तन्निरासेनैव [S. 202b.] निरस्त इति । अत्रैव दूषणान्तरमभिधातुं विकल्पयन्नाह " अपि च " इत्यादि । “वस्तुतः” परमार्थतो यस्य प्रतिहेतुर्न सम्भवति - किमसौ सम्यग्ज्ञानस्य विपर्ययस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हे.. तुरिष्ट [T. 362b. ] यतो विवक्षितैकसंख्यत्वं तल्लक्षणमुच्यते, आहोस्विद् यस्य प्रतिहेतुस्तत्साध्य विपरीतसाधको न प्रदर्शित: 25 परमार्थतः सन्नपीति । परो दोषमपश्यन्नाह – “ किञ्चातः " इत्यादि । यदि नाम पूर्वी विकल्प उत्तरो वा ततः को दोषः ? इति ।
-
Jain Education International
-
For Private & Personal Use Only
१. साध्यमप्यसाध्यं असाध्यमपि साभ्यं परे प्राहु: । २. दी सन्दर्श - T. ३. हेतोरात्मनो सा° - T. ४. इति मन्यते - T.
20
www.jainelibrary.org