________________
२१२
हेतुबिन्दुटीका।
सत्यबाधा गम्यते रूपान्तरं तु किमिति न भवति ? इति, अत आह – “ तन्नाम " इत्यादि । तडि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थित्या । [S. 201a.] लक्षणकारैश्च रूपान्तरत्वेनोपादानमर्हति यस्य विशेषणस्य भावेऽपि यस्यापरस्याभावः स्यात् । यतः सम्भवे व्यभिचारे च विशेषणविशेष्यभावो 5 न सम्भव एव केवले । उदाहरणमाह - " तद् यथा " इत्यादि । सत्यपि हि धर्मिसम्बन्धे श्रावणत्वादेः सपक्षे भावो नास्ति । सत्यपि च चाक्षुषत्वादेः सपक्षे भावे साध्यधम्मिणि शब्दे सम्बन्धो नास्ति । ततोऽनयोः सम्भवव्यभिचार
यो वाद विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम् । 10 इहाऽप्येवं भविष्यतीति चेद् आह - " न चैतद् ” अनन्तरोदितमबाधाया अविनाभावे सति सम्भवति। सत्यविनाभावे नियमेनाबाधायाः सम्भवाद्यभिचाराभावात् कुतो विशेषणविशेष्यभावो क्षणान्तरत्वेन चोपादानमर्हति ? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति । 15 उक्तेन प्रकारेण विपर्यये सम्यग्घेतुरेवाविषये तु प्रयोगाद्धेत्वा
भास उच्यते । यत एवम् “इति" तस्मान्न तदभावो बाधाविरहः [T. 361b.] पृथगविनाभावादन्वयव्यतिरेकात्मनोऽनयोर्हेतुविरुद्धयोर्लक्षणान्तरत्वेन वाच्यः, [S. 201b.] व्यभिचाराभावेन रूपा
न्तरत्वायोगात् । यतश्चाविनाभावे सति बाधा न सम्भवति वि20 रोधात्, तस्माडेतोर्यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि
प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् । तत् कथं बाधाविरहो हेतो रूपान्तरमुच्यते ? । असम्भविनां च तेषां उपवर्णनं निष्फलमित्याकूतम् । 25 केवलायाः प्रयोगेऽस्ति सम्भव इति चेत्, आह - " नापि "
इत्यादि । हेतुप्रयोगे ह्यसति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् । ततश्च शास्त्रकारैर्न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धाद्यो वाच्या इति । दिडागपादैस्तु साध्यासाध्यवि. १. °त्वेन नोपादनम् - T. २. °त्वेन नोपा°-T. ३. °मिति कुतः - T.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only