________________
बाधाविनाभावयोर्विरोधसिद्धिः।
२११ न्तरेण बाधकप्रत्ययोत्पादे सत्यप्रामाण्योपगमात् । अयाव्यापकस्याप्युपलम्भस्य निवृत्ती बाधा निवर्त्तते -
"निवर्त्तते हि मिथ्यात्वं दोषाशानादयत्नतः ॥" [लोक० सू० २. ५२] इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेरित्याह - तथापि व्यर्थो हेतुः । कुतः ? । “ बाधानुपलम्भादेव " हेतुप्रयोगरहितात् 5 साध्यसिद्धेः । किं कारणम् ?। अनुपलम्भे बाधाया असम्भवात् । तथा हि - यत्र बाधाया अनुपलम्भस्तत्र परमार्थत एव सा न विद्यत इति मन्यसे । यत्र चासौ परमार्थतो नास्ति तत्र साध्यधर्मस्याभावोऽपि परमार्थेनैव [T. 360b.] नास्त्यन्यथा परमार्थेन बाधाया अभावायोगात् । ततश्च साध्यधर्मस्याभावाभावे 10 सति भाव इति भवन्मत्या साध्यप्रतीतेर्व्यर्थता हेतोरिति ।।
अथ मा भूदू युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिरिष्यते, तत्राह - उपलम्भस्य निवृत्तावपि सत्यां बाधाया अनिवृत्ताविष्यमाणायां तवस्थं हेतोरसामर्थ्यम् यवस्थं बाधोपलम्भ इति हेतोरप्रयोग इति कस्याबाधितविषयत्वं [S. 200b.] 15 रूपान्तरं स्यात् ।
एतदेवोपसंहरन्नाह-" तस्मात् स्वसाध्य " इत्यादि । यत एवं व्याप्त्या हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिाप्ताविष्यमाणायां वैयर्थ्य हेतुप्रयोगस्यापद्यते तस्मात् “ स्वसाध्यभावाभावाभ्यां अन्यथाऽपि " खसाध्यभावेऽप्यभवन्नऽभावेऽपि च भवन् 20 हेतुर्धम्मिणि किञ्चित् साध्यं “ न भावयति " न साधयति । न विभावयति " तद्विपरीतं न निषेधयति इति " तस्य विधिप्रतिषेधावकुर्वत " उपक्षेपः " प्रयोगो " न समर्थः " इत्यवश्यं हेतुप्रयोगमिच्छता स्वसाध्याविनाभावः सर्वत्र हेतोरभ्युपगन्तव्यः । स च प्रतिबन्धनिबन्धनः । एष च दर्शनादर्शनमात्रायत्तो यथोक्तं 25 प्राक् । तस्मिंश्चाभ्युपगते बाधाविनाभावयोविरोधः [T. 361a.] सिद्ध इत्युपसंहरन्नाह - " तन्न ” इत्यादि । यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति । यदि नाम बाधाविनाभावयोः सहावस्थानाभावादविनाभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org