________________
२१०
हेतुबिन्दुटीका। स्यान्मतम् - अनुपलभ्यमानबाधत्वं हेतुलक्षणं [T. 359b.] परमार्थेन , नाबाधितविषयत्वमित्यत आह - " तथा च " इत्यादि। एवं हि सति बाधायाः सद्भावसम्भवेऽपि तामभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः। यदि हि बाधामभ्युपगम्य 5 हेतुप्रयोगो नाभिमतः स्यात् तदाऽनुपलम्भमात्रेण बाधायां संशयात् - सतामपि केषाश्चित् कथञ्चिदनुपलम्भसम्भवात् - संशयितस्य हेतुप्रयोगे प्रवृत्तिरेव न युज्येत । तस्माद् यो यत्संशयेऽपि प्रवर्तते स तस्य भावपक्षमभ्युपेत्यैव प्रवर्त्तते । तथा च यथा बाधानुपलब्धौ तामभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपल10 ब्धावपि प्रयुज्यताम् , बाधायाः सद्भावाभ्युपगमे सति तदुप
लम्भानुपलम्भयोविशेषाभावादिति नानुपलभ्यमानबाधत्वमपि [S. 199b.] हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहेऽप्यसति प्रतिबन्धे प्रामाण्यस्य सम्भव इति ।
परस्य वचनावकाशमाशङ्कयाह - " न बाधायाम् ” इत्यादि । 15 नैव हि बाधायां सत्यां हेतोः सामर्थ्य मिष्यते तत् कथं तदुपलम्भेऽपि प्रयोगः स्यात् । सिद्धान्तवाद्याह - “ यद्येवं ” बाधायां सत्यां हेतुरसमर्थो यदीष्यते तदाऽनिर्णीतो बाधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगं बाधाऽनुपलम्भमात्रेण नार्हति ।
किं कारणम् ? । मा भूदू बाधायाः सम्भवपक्षे “ प्रयुक्तस्यापि " 20 हेतोः साध्यसिद्धौ “असामर्थ्यमिति” । [T. 360a.] पूर्वपक्षवाचाहबाधानुपलम्भे सति बाधाया अभावात् सदुपलम्भकप्रत्ययाभावे सत्यवश्यमर्थानामसत्त्वाडेतोः सामर्थ्यम् इति चेन्मन्यसे सिद्धान्तवाद्याह - " किमुपलम्भो बाधाम् ” इत्यादि । उपलम्भो यर्थानां
कार्यम् , न च कार्य कारणं व्यामोति । न ह्यऽवश्यं कारणानि का25 यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात् । तत् कथमव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर्बाधायाः
सम्भवकृतमसामर्थ्य न सम्भवेदिति । एतच्च परैरपीष्यत एव; _[S. 200a.] प्रमाणतयोपगतस्याप्युदयकालेऽनुपलब्धबाधस्य काला
१. असामध्यप्रीप्तिरिति T. । २. अनुपलम्भात् - T. | ३. प्रत्ययसद्भावे - T. । ४. प्रतिबन्धातू -
T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org