________________
२०९
बाधाविनाभाक्योर्विरोधसिद्धिः । . यदुक्तम् “ अबाधयैव साध्यसिद्धेर्यों हेतुः" इति तत्रान्यथाऽर्थमवाधाया दर्शयन् हेतुसामर्थ्य प्रतिपादयन्नाह परः - न बाधाया अभावो ममावाधाऽभिमता । किं तर्हि ? । बाधाया अनुपलब्धिः। सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् कचिद् देशादौ बाधायाः सम्भवेऽपि स्यात् । ततो बाधाऽनुपलब्धिमात्रेण साध्य- 5 सिद्धेरभावात् तत्सिद्धयेऽवश्यं [S. 198b.] हेतुरभिधानीय इति स हेतुप्रयोगस्य विषयस्तदा हि हेतुः स्वसाध्यं साधयन् कथमसमर्थः स्यात् ? इति । . .
सिद्धान्तवाद्याह - किं नु वै हेतुर्बाधाया या उपलब्धिस्तस्याः बिभेति न पुनर्बाधाया येन बाधां सम्भवन्तीमप्यना- 10 दृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः।
कदाचित् परो ब्रूयात् - किं करिष्यति विद्यमानाऽपि बाधा तपस्विनी , [T. 359a.] तदुपलब्धिरेव राक्षसी । तस्मात् तत एव हेतोभयं तदभावे हेतुः प्रयोक्तव्य एवेत्यत आह - " स तर्हि " इत्यादि । एवं तर्हि परमार्थेन बाधा किमस्ति नास्तीत्येतदनपेक्ष्य 15 पाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काका पृच्छति । कदाचित् परो ब्रूयात् - उक्तमेवैतत् किमर्थ पृच्छयते ? इत्याह - " किमर्थं प्रयुज्यत " इति। बाधाऽनुपलम्भेऽपि तत्सम्भवे साध्यसाधनायोगादित्यभिप्रायः। परोऽनवगताभिप्राय आह – “साध्यसिद्धयर्थम्” इति बाधकप्रत्ययाभावे प्रामाण्यस्येष्टत्वात् ततः साध्य- 20 सिद्धिरविरुद्धैवेति मन्यते । सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भेऽपि साध्यसिद्धिमसम्भावयन् पृच्छति “स किं क्वचिद्” इत्यादि । किं [S. 199a.] पुनरसौ हेतुः सत्यामपि बाधायां साध्यं साधयेदिति सम्भाव्यते भवता येनास्या बाधाया अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रयुज्यत इति । एवमेतत् इति चेत् ; 25 तथा सत्यामपि बाधायां साध्यसाधनसामोपगमे सत्यबाधितविषयत्वं हेतुलक्षणं न भवति । किं कारणम् ? । बाधायामपि सत्यामस्य हेतोः “ सामर्थ्यात् " सामोपगमात् । तद्धि हेतोल- क्षणमुच्यते येन विना साध्यं न साधयेदिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org