________________
२०८
हेनुबिन्दुदीका। नुमानाभ्यां साध्यम्मिणि [S. 196-7b.] हेतोबिषयः साध्यधर्मों न बाध्यते यथाऽम्भस्त्वस्य लवणस्वम् , तदा तस्य गमकत्वम्, नान्यथेति । ततोऽन्यत्राबिनाभावमात्रेण साध्यसिद्धेरनभ्युपगमात् न यथोक्तो दोष इति । 5 सिद्धान्तवाद्याह – “तत् किम्” इदानीं [T. 358a.] यदा हेतोर्धर्मिण्यविनाभावितानभ्युपगमात् साध्यसिद्धेरभावात् तत्सिद्धये रूपान्तरमबाधितविषयत्वमुच्यते तदा हेतोर्न किश्चित् सामर्थ्यम् । कस्माद् ? " अबाधयैव " हेतुमन्तरेणापि "साध्यसिद्धेः” अकिञ्चित्कर एव हेतुः । तथा यत्र कल्पनाव्यम् - बाधकप्रमाणवृत्ती 10 साध्याभावो नियतो वा स्याद् ? अनियतो वा ?। तत्र यदि पूर्वी विकल्पस्तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावादिति । तस्मादू "अबाधायां” बाधकममाणवृत्त्यभावे तमियतख साध्याभावस्याप्यभावात् “साध्यसिद्धिः”
भवत्येवेति व्यर्थ एव हेतुरिति नोपन्यसनीय एव । ततः कस्या15 बाधितविषयत्वं रूपान्तरं भवेत् । स्थान्मतम् - मा भूद् बाधकप्रमाणवृत्त्यभाये हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धम्मिणि वर्त्तते तदा हेतोः साध्यसाधने सामर्थ्य भविष्यतीत्यत [S. 198a.] आह - "बापायामपि” इति। यदि बाधकं प्रमाणं
वर्त्तते तदा तेन साध्याभावस्य धम्मिणि साधनात् पुनर्ब्रह्मणापि 20 तद्भावस्य कर्तुमशक्यत्वात् किमङ्ग पुनः शंठेन हेतुनेति कुतः साधनस्य हेतोः सामर्थ्यम् ? । अत [T. 358b.] एव हि भवद्भिरबाधितविषयत्वं रूपान्तरमुच्यत इति ।
अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावेऽपि भावादिति द्वितीयः पक्ष इष्यते तदाप्यबाधायाः सामर्थ्यविरह 25 इति दर्शयन्नाह- अनियमे " बाधकप्रमाणवृत्ती साध्याभावस्येष्य
माणे सतीदमापतितम् । न च-बाधकं प्रमाणं स्यात् “ साध्याभावस्य च सम्भवः' - इति "न" साध्यसाधने “ सामर्थ्यम् अबाधायाः " सत्यामपि तस्यां साध्याभावस्य सम्भवादिति तद्योगिनोऽपि हेत्वाभासतैवेति । १. पुनः तादृशेन हे° T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |