________________
बाधाविनाभावयोर्विरोधसिद्धिः ।
ध्यधर्मे निष्कास्यमानं गले गृहीत्वा हठात् " तत्रैव " धर्म्मिण्यवस्थापयतीति " परं ” प्रकृष्टं बत "भावानां" साध्यधर्म्मलक्षणानामस्वास्थ्यं वर्तते । तथा हि - यन्त्रद्वयनियन्त्रितानां निरुच्छ्रासितया मरणमेव प्राप्तमिति ।
परो बाधाऽविनाभावयोविषयभेदादविरोधं दर्शयन्नाह - 5 “ अन्यत्र " साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर्न पुनः साध्यधर्मिण्येव । ततः [S. 196-7a.] कुतो बाधाऽविनाभावयोविरोधोऽन्यत्र बाधया साध्यधर्म्माभावसाधनादन्यत्र च हेतुना तद्भावसाधनात् । तथा चैवंविधे सत्यपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपा - 10 न्तरस्य सम्भव इति ।
एवंविधाविनाभावोपगमे सत्यप्यबाधितविषयत्वादिके रूपान्तरे हेत्वाभासास्ततोऽपरे " रूपान्तरसम्भविन इत्यापादितां हेत्वाभासतां विवरीतुं परोपह। सपूर्वकमाह - तत् किम् " अयं" साध्यधर्मी " तपस्वी " CC वर। कः शङ्क (ण्ढ)मुद्वाह्य तस्मिन् ” साध्य- 15 धर्मसाधनशक्ति विकलं [T. 357b. ] हेतुं परिणाय्य साध्यधलक्षणं “ पुत्रं मृगयते ? " । एतदेव व्यनक्ति - यस्य " हेतोर्डमिण्यसत्यपि " साध्यधर्मे भाव " इष्यते, साध्यधर्मिणोऽन्यत्राविनाभावोपगमात् । " तं " तथाविधं साध्यधर्मिण्युपदर्य कथं धर्मी साध्यधर्म्मवानित्युच्यते ? । न ह्यऽम्भस्त्वस्य समुद्रे लवण - 20 त्वेनाविनाभावेऽपि तद्व्यतिरिक्तेऽम्भसि लवणतया साध्यत्वेनेष्टेऽम्भस्त्वभावेऽपि लवणत्वसिद्धिरिति ।
6
66
Jain Education International
66
परस्य वचनावकाशमाशङ्कयाह अत एव " इत्यादि । एतदेव विवृणोति - " स्यादेतद्” भवतो मतम् । यत एव हेतुरन्यथाsपि साध्यधर्ममन्तरेणापि धर्मिणि भवेदम्भस्त्वादिषु तथा 25 दर्शनात् साध्यधर्म्मिपरिहारेण चाविनाभावोपगमात् अत एव कारणात् प्रमाणाभ्यामबाधितधर्म्मा धर्मीत्युच्यते । यदि प्रत्यक्षा
१. हेतोः । २. साध्य ।
२०७
"
1
For Private & Personal Use Only
www.jainelibrary.org