________________
२०६
टीका ।
5
तुद्रव्यस्य तदेकसंख्यं विवक्षितमेकसंख्यं हेतुद्रव्यमाश्रयत्वेन यस्य हेतु सामान्यस्य तद्विवक्षितैकसंख्यं तद्भावोऽपरं रूपम् । यद्येकसंख्यात्र्यवच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायामपि द्विसंख्यायुक्तायोमिति । [ S. 1952. ] यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदsa इति यावत् । तथा ज्ञातत्वं च ज्ञानविषयत्वं च । नाज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः [T, 356b.] इति । तत्रैतेषु रूपान्तरेषु यदेतबाधितविषयत्वं नाम तत् तावत् प्रतिबन्ध - निबन्धनान्वयव्यतिरेकात्मकाऽविनाभावसम्भवे सति ततः पृथ10 गन्यल्लक्षणं न भवति । तदात्मकं तु तद्वचनेनैवोक्तमिति न वक्तव्यमिति । कस्मात् पृथग् लक्षणं न भवति ? बाधाया अविनाभावस्य च विरोधादिति । तथा हि - सत्यप्यविनाभावे यथोक्ते बाधासम्भवं मन्यमानैरबाधितविषयत्वं रूपान्तरमुच्यते । सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन “ विरो15 धातू " सहानवस्थानलक्षणात् । तमेव विरोधं साधयन्नाह - "अविनाभावो हि” इत्यादि । सत्येव हि साध्यधर्मे भावो हेतोरविनाभाव उच्यते । प्रमाणबाधा तु तस्मिन्नसति । यदि हि सत्येव तस्मिंस्तदभावविषयं प्रमाणं प्रवर्त्तेत तदाऽस्य भ्रान्तत्वादप्रमाणतैव स्यात् इति कुतो बाधा ? । ततः "स" हेतुः “तल्लक्षणः” साध्या20 विनाभावी “ धर्मिणि स्यात् । अत्र च साध्यधर्म्मः कथं न भवेत् " ? यतो [S. 195b.] बाधावकाशः स्यात् । तस्माद्विनाभावस्य प्रमाणबाधायाश्च सहानवस्थानमविनाभावेनोपस्थापितस्य धर्मिणि साध्यभावस्य प्रमाणबाधोपस्थापितस्य च तद्भावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्यसम्भवादिति ।
25
८८ प्रत्यक्षानु
तमेव विरोधं स्पष्टीकर्तुं परोपहासव्याजेनाह - माने हि " इत्यादि । साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, " तं ग्रीवायां गृहीत्वा " [T. 3572.] धर्म्मिणः स्वाश्रयात् “ निष्कासयतः " | तस्मिंश्च साध्यधर्मे सत्येव तदविनाभावित्वाद्धेतुर्भवंस्तं" सा
२
१. 'यामपि अनुपलम्भात् - T. । २. निष्कास्य यतः T . ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org