________________
हेतुलक्षणेऽधिकरूपयादिनां निरासः
२०५ हरन्नाह - “इति” एष एव [S. 194a.] खभावकार्यानुपलब्धिलक्षणः पक्षधर्मोऽन्वयव्यतिरेकवान् प्रतिवन्धसद्भावात्'। यतश्चान्वयव्यतिरेकवान् प्रतिवन्धप्रसाधकप्रमाणसावादुक्तेन न्यायेन “इति” तस्मात् "तदंशेन व्याप्तोऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्यानिश्चयाद् यथोक्तं प्राक्, [P. 355b.] ततश्च तदंशव्याप्तिवचनात् 5 त्रिलक्षण एव "त्रिरूप एव" त्रिविध एव हेतुर्गमको नान्यलक्षणोऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायामप्यव्यभिचाराभावेनागमकत्वात् । कस्मात् विलक्षण एव त्रिविध एव हेतुर्गमको नान्यलक्षणोऽन्यो वति दर्शयति "स्वसाध्यधर्माव्यभिचाराद्” इति 10 त्रिलक्षणस्यैव खसाध्यधाव्यभिचारात् । स्वसाध्यधाव्यभिचार एव च गमकत्वमिति रूपान्तरकल्पना व्यर्था । प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायामपि स्वसाध्यधर्माव्यभिचाराभावात्। तदनेन त्रिधैव स' इत्यस्य त्रिलक्षण एव “स हेतुरःविनाभावस्य” स्वसाध्यधर्माव्यभिचारस्य “नियमाद" अव- 15 श्यन्तया सद्भावात् [S. 194b.] प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे(गमे) च रूपान्तरकल्पनायामपि "हेत्वाभासास्ततोऽपरे” यथोक्तत्रिलक्षणादपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा [T. 356a.] अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्वभावादित्यपरोऽर्थो दर्शित इति ।
20 [$ ५. हेतुलक्षणेऽधिकरूपवादिनां निरास:।] यदुक्तं 'त्रिलक्षण एष हेतु न्यलक्षणः' इति तत्र परेषां विप्रतिपत्तिं दर्शयन्नाह - " षडक्षणो हेतुरित्यपरे " नैयायिक-मीमांसकादयो मन्यन्ते । कानि पुनः षड्पाणि हेतोस्तैरिष्यते ? इत्याह - त्रीणि चैतानि” पक्षधर्मान्वयव्यतिरेकाख्यानि । तथाऽ- 25 बाधितविषयत्वं चतुर्थ रूपम् । अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वमपरं रूपम् । तथा विवक्षितकसंख्यत्वं रूपान्तरं, एका संख्या यस्य हे१. °सद्भावात् अस्यैव स्वभावकार्यानुपलब्धिलक्षणाश्रय(णास्पद)त्वात् T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org