SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०४ हेतुबिन्दुटीका। कार्यकारणभावप्रसाधकेन पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधित्ते सिद्धसम्बन्धयोर्ययभावो यत्र यत्राभावः स्यात् परस्यापि कार्यस्य व्याप्यस्य बाऽवश्यं नियमेनाभावोऽन्यथाऽहेतुकत्वम25 सङ्गात् , निःस्वभावताप्रसङ्गाच। तद्वारेण प्रतिवन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्यादित्येतस्यार्थस्य दर्शनार्थमेते कारणव्यापकानुपलब्धी प्रयुज्यते इति । दर्शनादर्शनवलेन तु साधने यत्रैवैकदर्शने परो दृष्टोऽदर्शने वा न दृष्टः तत्रैव तस्य भावोऽ भावो वा भवतु सर्वत्र तु करमाद् भवति । न खप्रतिषडा10 त्मनां गवाश्चादीनां कचित् तथाभावदर्शनेऽपि सर्वत्र तथा भावो भवति, पुरुषस्य तु सर्वदा कचिदेकभावाभावयोरपरस्य [S. 193b.] भावाभाषदर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिवन्धे । तथा चाह - “देशादिभेदारश्यन्ते भिन्ना द्रव्येषु शक्तयः । 15 तत्रैकशष्या नान्यत्र युक्तस्तद्भावनिश्चयः॥" [प्रमाणवा० ३. २.] इति । तस्मादवश्यं प्रतिबन्धः साध्यसाधनयोरभ्युपगन्तव्यः । स [T.2_355a.] एवान्धयव्यतिरेकप्रयोगाभ्यां सूचनयिः। न चासो व्याप्त्याऽन्वयव्यतिरेकोपदर्शनमन्तरेण ख्यापयितुं शक्यत इति 'यत्र यत्र' इति सकलपदार्थपरिग्रहेण ख्याप्यते । प्रतिबन्धे हि प्र20 माणसिडे सत्यवश्यमेव यत्र यत्र कार्य तत्र तत्र कारणम् , यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्यभावोऽन्यथा कारणमन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् । ततश्च नित्यं सत्त्वादिप्रसङ्गः । तथा यत्र यत्र यत्खभावस्तत्र तत्र तेझावः अन्यथा तस्य नैरात्म्यमेव स्यादिति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः 25 ख्यापयितुं शक्यते नान्यथेति प्रागेव विस्तरतो विपश्चितम् । __ [$ ४. हेतोस्रुष्यत्रैविध्ययोहेत्वाभासत्वस्य चोपसंहारः। ] एवं कार्यखभावानुपलब्धिलक्षणे एव पक्षधम्म तत्साधकप्रमाणसद्भावादन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसं १. तत्स्व भाव- T.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy