________________
२०३
अनुपलब्धिहेतोस्नैविध्यम् । शेषाणामुपलब्धिर्न सिध्यति “ तदाऽभावमभावव्यवहारं वा साधयति ” । समुच्चयार्थी वाशब्दः । अथ किं स्वभावानुपलब्धावप्यभावो लिझतया साध्यत इत्याह - " स्वभावानुपलब्धौ तु " इत्यादि । " अभावव्यवहार एव ", नाभावोऽपि तस्य प्रत्यक्षसिद्धत्वात् ।
अत्र परस्य वचनावकाशमाशङ्कयाह – “ यदि " तर्हि "कार- 5 णव्यापकौ " सिद्धोऽसयवहारो ययोः तौ सन्तौ । केन ? । “तदन्यस्य" कारणव्यापकविविक्तस्य भावस्य सिद्धियों प्रत्यक्षात्मिका तद्रूपयाऽनुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वाऽभावमभावव्यवहारं च साधयतः। सा चान्यभावोपलब्धिस्तयोः कारणव्यापकयोरुपलब्धिलक्षणप्राप्तावेव सत्यामसद्यवहारस्य साधिका ना- 10 न्यथा इत्येवमिष्यमाणे [T. 354a.] [S. 192b.] सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षेऽर्थे विषये प्रयोगः । यदा कार्यस्वभावहेत्वोर्व्यतिरेकप्रयोगः क्रियते-यत्र यत्राग्निर्नास्ति तत्र तत्र धूमोऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्यशेषपदार्थपरिग्रहेण व्यति- 15 रेकप्रयोगे सति । नहि तदानिवृक्षव्यतिरिक्ताः सर्वेऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा। ततश्च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः प्रतियोगिनो वोपलब्धिलक्षणप्राप्तता सिद्धा ? । तथा च कथमशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वोर्व्यतिरेकः सिध्येत् ? । तदसिद्धौ वा कथमनयोग्र्गमकत्वम् ? । तस्मात् क- 52 चिददर्शनमात्रादेव व्यतिरेक एष्टव्यः, कचिच्च दर्शनमात्रादन्वयः । तथा च प्रतिबन्धघोषणाऽनर्थिकेति मन्यते परः।
सिद्धान्तवाद्याह - “ नैव " परोक्षेऽर्थे कारणव्यापकानुपलध्योः “ प्रयोगो" [S. 193a.] व्यतिरेकोपदर्शनकाले “ प्रमाणतया " कारणस्य व्यापकस्य वाऽनुपलब्धिः प्रमाणभूता नैव प्रयुज्यते ।2 कस्मात् ? । “ लिङ्गस्य " कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा “अनिश्चयात्” तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च [T. 354b.] सन्दिग्धत्वात् । कथं तर्हि तदाऽनयोः प्रयोग इष्यते ? इत्याह - " केवलम् ” इत्यादि । कारणव्यापकयोर्हि १. अमिवृक्ष ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org