________________
૨૦૨
हेतुबिन्दुटीका। धिका। सा च यथा साध्यधम्मिणि तद्भावसिद्धये दृष्टान्तमपेक्षते तथा दृष्टान्तेऽपि । तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति । अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य । यत एवं “ तस्मान्न” कुतश्चिल्लिङ्गात्तदन्यभावात्तदुपलब्धेवा 5 तभावसिद्धिरिति । यदि तदन्यभावस्तभावं न साधयति, किं पुनर्लिङ्गतया' [T. 353a] साधयति ?, इत्यत आह - " सोऽन्यभावः " प्रत्यक्षलक्षणेन-प्रत्यक्षस्यैव विवक्षितोपलम्भादन्यत्वेनानुपलम्भत्वात् । तल्लक्षणेनानुपलम्भेन सिडः सन्नभावव्यवहारं साधयेत्, कर्मस्थक्रियापेक्षायां तदन्यभावस्यानुपलब्धिरूपत्वात् । 10 क पुनरसावभावव्यवहारं साधयेत् ? । मूढप्रतिपत्ती साध्यायां। यस्त्वमूढो [S. 191b.] विषयप्रतिपत्तौ विषयिणं स्मरत्येव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर्लिङ्गतेति सुचर्चितमेवान्यत्रेतीहालं प्रसङ्गेनोति ।
___ [$ ३. अनुपलब्धि त्रिधा विभज्य तद्विवेचनम् । ] 15 तदेवमनुपलब्धेरशेषविप्रतिपत्तिनिराकरणेन खरूपमवस्थाप्य
प्रभेदनिर्देशार्थमाह - " सेयं यथोक्ता त्रिधाऽनुपलब्धिः "। कथम् ? । सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः। कीदृशस्य ? सिद्धाभावस्य । तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य 20 नान्यस्य व्यापकानुपलब्धेरेवासिडताप्रसङ्गाद् । यथोक्ता खभा
वानुपलब्धिश्चेति । एवं त्रिविधाऽनुपलब्धिः। कथं पुनः कारणव्यापकयोरभावव्यवहारः सिध्यति यतस्तयोः सिद्धाभावतोच्यत [T. 353b.] इत्याह – “ तत्र कारणव्यापकयोरपि " न केवलं यस्य साक्षाद्भावव्यवहारः साध्यते। स्वभावानुपलब्धौ "स्वभावस्यास25 व्यवहारस्य. सिद्धिरन्यस्य” तद्विविक्तस्य भावसिद्धिर्या सैवासब्यवहारसिद्धिहेतुत्वादेवमुच्यते । [S. 192a.] “स” कारणव्यापकाभावः "तथासिद्धोऽन्यभावसिद्धया प्रत्यक्षरूपया सिद्धोऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः । यदाऽनयोविरूपविषयतया सवि
१. तया न सा° T.। २. अन्यभावोऽनुपलम्भेन सिद्धो यः स कथमनुपलब्धिः ? इत्याह । ३. भूतल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |