________________
- अन्यभावविषयाया उपलब्धे भावस्य लिङ्गत्वम् । २०१ शिविक्तप्रदेशाकाराया [T. 352a.] “ आविर्भावकाल एव " जन्मकाले प्रतीतिकाल एव वा तदभावसिद्धेश्च । तथा हि - तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनमेव तदभावसंवेदनमिति । तदेव साधयति - न अन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रति. पत्ता पुनरुत्तरकालं तत्प्रतिपत्तेरन्यभावप्रतिपत्तेस्तदभावेनान्वय. 5 व्यतिरेको प्रसाध्य प्रतिबन्धसाधकेन प्रमाणेन तद्भावं प्रतिपयते । किं तर्हि ? । तदन्यं तविविक्तरूपं प्रतिपद्यमान एव सख प्रतियोगिनोऽभावं प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् । तथा हि - सघटप्रदेशासंकीर्णरूपस्य [S. 190b.] केवलप्रदेशस्य दर्शनमेष घटाभावदर्शनम् । नहि 'घटोऽत्र नास्ति' 'घटवानयं न म-10 पति 'सघटादन्यः' इत्यर्थ मेनः कश्चित् । ततः सघटादन्यतया केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनमिति । 'घटोऽत्र. नास्तीति ज्ञानं गृहीतग्राहितया स्मृतिरेवेति । कथं ज्ञायत इति चेत् । दर्शनानन्तरमन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना 'इदं घटविविक्तं प्रदेशवस्त्वस्ति' 'इदं तु घटवस्तु नास्ति' इति पाश्चा-15 त्येन विकल्पद्येन ब्यवस्थापनात्। ततो नान्वयव्यतिरेकानुसरणमन्नास्तीति [T. 352b.] । . .
किथ - स्वान्तासिड़े खास्मन्यभावविषयोपलब्धिस्तदभावस्य' साधनं । तदेव व्यतिरेकमुखेन दर्शयति- " तच तस्य " :त्यादि । इहाप्यस्स्येबान्वय इति चेत्, आह -“च ह्येवं शक्यम्” 20 इत्यादि । कस्मात शक्य दयितुम् । तदेकोपलब्धेः तस्यैकस्यानन्यसंसरिंगणो योपलब्धिविशेषरूपा तत्वाः कचिदप्यन्यत्राभावात् । अथ तद्विवित्तोपलब्धिसामान्यं हेतुरुच्यते - यत्र यत्र घटविविक्तभूतलोपलब्धिस्तत्र [S. 191a.] तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्याह - "सामान्येन प्रदर्शने क्रियमाणे” 25 दृष्टान्तेऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरमन्यभावविषयोपलब्धेर्नास्ति , किं तु सैव तदन्पभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य सा
१. प्रतीतिजन्मकाल एवं T.। २. तस्य मायामा-T.। ३. ज्ञापनात् - T.! ४. °स्य न साधनम् - T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org