________________
२००
हेतुबिन्दुटीका। . एतदेवोपसंहरन्नाह - " तस्मादतदात्मा " च सर्वस्तविपरीतरूपस्तदेकाकारया बुद्ध्या प्रसाधितः स्यात् " तद्देशकालश्च " तस्य प्रतिभासमानस्य यो देशकालौ तौ यस्य, स च स्यात् । किंवत् । रसरूपादिवदिति । नहि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य 5 रसस्य स्वविषयात् पृथकरणेऽपि तदसांकर्यसाधनेऽपि तद्देशकालयोरभावः [S. 189b.] सिध्यति । ततश्च कथं सर्वस्यातुल्ययोग्यावस्थस्यापि तत्राभावः स्यात् ?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत । यत एवं " तस्मात् ” कचित् कदाचित्
कस्यचिदभावसिद्धियथोक्तादेवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य 10 [T. 351b.] तत्तुल्ययोग्यतारूपोपलम्भात्मनश्चेत्येवंरूपात्, न तु सामान्येन यथाऽऽहुः परे -
"प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥" [श्लोक० अभा० १] इति । न ह्यनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्तावपि तद्भावः सि. 15 ध्यति , सत्यपि तस्मिन् खभावादिविप्रकर्षेण प्रमाणपश्चकाप्रवृत्तिसम्भवादिति ।
तदेवं प्रासङ्गिक परिसमापय्य यदुक्तं परेण ‘से एवान्यभावस्तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्' इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धे20 निराकुर्वन्नाह - " अन्यभावविषयेत्यादि । यत्पुनरुक्तम् - 'अन्यभावविषयोपलब्धिस्तदभावस्य किन्न साधनम्' इति सा तदभावस्य साधिकेष्टैवास्माकम्, [S. 190a.] न तु लिङ्गत्वेन यथोक्तवानसि । किं कारणम् ? । यतः तत्राप्यन्यभावविषयायामुपलब्धावऽभावस्य पृथगन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धा. 25 भावस्य तदभावेन तुल्यत्वात् । न हि तस्या अपि अन्यभाव
रूपायाः तदभावेन कश्चिदेकार्थसमवायादिरूपः सम्बन्धोऽ. स्तीति ।
अपृथक्सिडेरित्यस्यापि तुल्यतां दर्शयन्नाह - “लिङ्गाविर्भावे"त्यादि । येयमन्यभावविषया उपलब्धिर्लिङ्गतयोच्यते तस्यास्त१. पृ० १७८. पं० १४. २. पृ. १७८.५० १५. ३. भावविषयायाः T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org