________________
हेतुबिन्दुटीका। क्षादिकं [s. 187b.] प्रवृत्तं तबस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततोऽन्यत्तद्रूपविकलं व्यवच्छिनत्ति , तदन्यत्वेन व्यवस्थापनात् । तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं
सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तंविरुद्धस्य वा स. 5 व्ववस्तुनो दैविध्यस्य साधनादिति । ____ एवमेकस्य प्रमाणस्य व्यापार एषोऽनन्तरोक्त इति तमेवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह - “ तथाहि " कचिवस्तुनि "प्रमाणं' प्रत्यक्षादि प्रवृत्तं “तदेव" वस्तु तदन्यस्मात् "पररूपाद् व्यवच्छिनत्ति” ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थ10 तस्तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात् । किमिति पररूपाधवच्छिनत्ति ? । तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् । तथा “ तदन्यदेव च " तस्माद् दृश्यमानादन्यदेव च व्यवच्छिनत्ति । कुतः। “तस्मात्' [T. 350a.] स्खविषयात् । न
केवलं खविषयं परतो व्यवच्छिनत्ति , परमपि स्वविषयाद् इति । 15 कुत एतद् ? । अन्यस्य पररूपस्य तत्र खालम्बनेऽपरिच्छेदादवश्यमेवापरिच्छिन्नस्य [S. 188a.] परिच्छिन्नादन्यत्वं भवति । यत एवमतः "तद् एव प्रमाणमेकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् । कुत एतत् ? । तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं 20 दृष्टात् तदन्यत्वं " दृष्टतदन्यत्वं " तेन सर्वस्य तयतिरिक्तस्य व्यवस्थापनान्न अ(°पनेन अ)तदन्यस्यैव च यदन्यन्न भवति पुरोऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनादिति। ___ अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह - “ एतेन क्रमाक्रमादयः " 25 इत्यादि । एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानु
कारिणी बुद्धिरुपजायमाना तद्विपरीतरूपं सर्व खविषयाद् व्यवच्छिन्दती दैराश्यं तृतीयप्रकाराभावं च साधयतीति ये केचिदन्योन्यव्यवच्छेदरूपाः क्रमाक्रमानित्यानित्यादयःते व्याख्याताः। १. प्रकारा(र) । २. अनेनेति शेषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org